रामायण · अध्याय 4.041
ततः प्रस्थाप्य सुग्रीवस् तान् हरीन् दक्षिणां दिशम्
बुद्धिविक्रमसंपन्नान् वायुवेगसमाञ्जवे
अथाहूय महातेजाः सुषेणं नाम यूथपम्
तारायाः पितरं राजा श्वशुरभीमविक्रमम्
अब्रवीत् प्राञ्जलिर् वाक्यम् अभिगम्य प्रणम्य च
साहाय्यं कुरु रामस्य कृत्ये ऽस्मिन् समुपस्थिते
वृतः शतसहस्रेण वानराणां तरस्विनाम्
अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो
सुराष्ट्रान् सह बाह्लीकाञ् शूराभीरांस् तथैव च
स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च
पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम्
तथा केतकषण्डांश् च मार्गध्वं हरियूथपाः
प्रत्यक् स्रोतोगमाश् चैव नद्यः शीतजलाः शिवाः
तापसानाम् अरण्यानि कान्तारा गिरयश् च ये
गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम्
ततः पश्चिमम् आसाद्य समुद्रं द्रष्टुम् अर्हथ
तिमि नक्रायुत जलम् अक्षोभ्यम् अथ वानरः
ततः केतकषण्डेषु तमालगहनेषु च
कपयो विहरिष्यन्ति नारिकेलवनेषु च
तत्र सीतां च मार्गध्वं निलयं रावणस्य च
मरीचिपत्तनं चैव रम्यं चैव जटीपुरम्
अवन्तीम् अङ्गलोपां च तथा चालक्षितं वनम्
राष्ट्राणि च विशालानि पत्तनानि ततस् ततः
सिन्धुसागरयोश् चैव संगमे तत्र पर्वतः
महान् हेमगिरिर् नाम शतशृङ्गो महाद्रुमः
तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः
तिमिमत्स्यगजांश् चैव नीडान्य् आरोपयन्ति ते
तानि नीडानि सिंहानां गिरिशृङ्गगताश् च ये
दृप्तास् तृप्ताश् च मातङ्गास् तोयदस्वननिःस्वनाः
विचरन्ति विशाले ऽस्मिंस् तोयपूर्णे समन्ततः
तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्
सर्वम् आशु विचेतव्यं कपिभिः कामरूपिभिः
कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनम्
दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः
कोट्यस् तत्र चतुर्विंशद् गन्धर्वाणां तरस्विनाम्
वसन्त्य् अग्निनिकाशानां घोराणां कामरूपिणाम्
नात्यासादयितव्यास् ते वानरैर् भीमविक्रमैः
नादेयं च फलं तस्माद् देशात् किं चित् प्लवंगमैः
दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः
फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः
तत्र यत्नश् च कर्तव्यो मार्गितव्या च जानकी
न हि तेभ्यो भयं किं चित् कपित्वम् अनुवर्तताम्
चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः
तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम्
आजहार ततश् चक्रं शङ्खं च पुरुषोत्तमः
तस्य सानुषु चित्रेषु विशालासु गुहासु च
रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः
योजनानि चतुःषष्टिर् वराहो नाम पर्वतः
सुवर्णशृङ्गः सुश्रीमान् अगाधे वरुणालये
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्
यस्मिन् वस्ति दुष्टात्मा नरको नाम गुहासु च
तस्य सानुषु चित्रेषु विशालासु गुहासु च
रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः
तम् अतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः
पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः
तं गजाश् च वराहाश् च सिंहा व्याघ्राश् च सर्वतः
अभिगर्जन्ति सततं तेन शब्देन दर्पिताः
तस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः
अभिषिक्तः सुरै राजा मेघवान् नाम पर्वतः
तम् अतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्
षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ
तरुणादित्यवर्णानि भ्राजमानानि सर्वतः
जातरूपमयैर् वृक्षैः शोभितानि सुपुष्पितैः
तेषां मध्ये स्थितो राजा मेरुर् उत्तमपर्वतः
आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा
तेनैवम् उक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः
मत्प्रसादाद् भविष्यन्ति दिवारात्रौ च काञ्चनाः
त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः
ते भविष्यन्ति रक्ताश् च प्रभया काञ्चनप्रभाः
आदित्या वसवो रुद्रा मरुतश् च दिवौकसः
आगम्य पश्चिमां संध्यां मेरुम् उत्तमपर्वतम्
आदित्यम् उपतिष्ठन्ति तैश् च सूर्यो ऽभिपूजितः
अदृश्यः सर्वभूतानाम् अस्तं गच्छति पर्वतम्
योजनानां सहस्राणि दशतानि दिवाकरः
मुहूर्तार्धेन तं शीघ्रम् अभियाति शिलोच्चयम्
शृङ्गे तस्य महद् दिव्यं भवनं सूर्यसंनिभम्
प्रासादगुणसंबाधं विहितं विश्वकर्मणा
शोभितं तरुभिश् चित्रैर् नानापक्षिसमाकुलैः
निकेतं पाशहस्तस्य वरुणस्य महात्मनः
अन्तरा मेरुम् अस्तं च तालो दशशिरा महान्
जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः
तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च
रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः
यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः
मेरुसावर्णिर् इत्य् एव ख्यातो वै ब्रह्मणा समः
प्रष्टव्यो मेरुसावर्णिर् महर्षिः सूर्यसंनिभः
प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति
एतावज् जीवलोकस्य भास्करो रजनीक्षये
कृत्वा वितिमिरं सर्वम् अस्तं गच्छति पर्वतम्
एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः
अभास्करम् अमर्यादं न जानीमस् ततः परम्
अधिगम्य तु वैदेहीं निलयं रावणस्य च
अस्तं पर्वतम् आसाद्य पूर्णे मासे निवर्तत
ऊर्ध्वं मासान् न वस्तव्यं वसन् वध्यो भवेन् मम
सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति
श्रोतव्यं सर्वम् एतस्य भवद्भिर् दिष्ट कारिभिः
गुरुर् एष महाबाहुः श्वशुरो मे महाबलः
भवन्तश् चापि विक्रान्ताः प्रमाणं सर्वकर्मसु
प्रमाणम् एनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्
दृष्टायां तु नरेन्द्रस्या पत्न्याम् अमिततेजसः
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा
अतो ऽन्यद् अपि यत् किं चित् कार्यस्यास्य हितं भवेत्
संप्रधार्य भवद्भिश् च देशकालार्थसंहितम्
ततः सुषेण प्रमुखाः प्लवंगमाः सुग्रीववाक्यं निपुणं निशम्य
आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर् दिशं तां वरुणाभिगुप्ताम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0