रामायण · अध्याय 4.020
रामचापविसृष्टेन शरेणान्तकरेण तम्
दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना
सा समासाद्य भर्तारं पर्यष्वजत भामिनी
इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्
वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा
तारा तरुम् इवोन्मूलं पर्यदेवयद् आतुरा
रणे दारुणविक्रान्त प्रवीर प्लवतां वर
किं दीनाम् अपुरोभागाम् अद्य त्वं नाभिभाषसे
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्
नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः
अतीव खलु ते कान्ता वसुधा वसुधाधिप
गतासुर् अपि यां गात्रैर् मां विहाय निषेवसे
व्यक्तम् अन्या त्वया वीर धर्मतः संप्रवर्तता
किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता
यान्य् अस्माभिस् त्वया सार्धं वनेषु मधुगन्धिषु
विहृतानि त्वया काले तेषाम् उपरमः कृतः
निरानन्दा निराशाहं निमग्ना शोकसागरे
त्वयि पञ्चत्वम् आपन्ने महायूथपयूथपे
हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि
यन् न शोकाभिसंतप्तं स्फुटते ऽद्य सहस्रधा
सुग्रीवस्य त्वया भार्या हृता स च विवासितः
यत् तत् तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप
निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता
यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी
कालो निःसंशयो नूनं जीवितान्तकरस् तव
बलाद् येनावपन्नो ऽसि सुग्रीवस्यावशो वशम्
वैधव्यं शोकसंतापं कृपणं कृपणा सती
अदुःखोपचिता पूर्वं वर्तयिष्याम्य् अनाथवत्
लालितश् चाङ्गदो वीरः सुकुमारः सुखोचितः
वत्स्यते काम् अवस्थां मे पितृव्ये क्रोधमूर्छिते
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्
दुर्लभं दर्शनं त्व् अस्य तव वत्स भविष्यति
समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च
मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्य् असि
रामेण हि महत् कर्म कृतं त्वाम् अभिनिघ्नता
आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे
भुङ्क्ष्व राज्यम् अनुद्विग्नः शस्तो भ्राता रिपुस् तव
किं माम् एवं विलपतीं प्रेंणा त्वं नाभिभाषसे
इमाः पश्य वरा बह्वीर् भार्यास् ते वानरेश्वर
तस्या विलपितं श्रुत्वा वानर्यः सर्वतश् च ताः
परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः
किम् अङ्गदं साङ्गद वीर बाहो विहाय यास्य् अद्य चिरप्रवासं
न युक्तम् एवं गुणसंनिकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम्
किम् अप्रियं ते प्रियचारुवेष कृतं मया नाथ सुतेन वा ते
सहायिनीम् अद्य विहाय वीर यमक्षयं गच्छसि दुर्विनीतम्
यद्य् अप्रियं किं चिद् असंप्रधार्य कृतं मया स्यात् तव दीर्घबाहो
क्षमस्व मे तद् धरिवंश नाथ व्रजामि मूर्ध्ना तव वीर पादौ
तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः
व्यवस्यत प्रायम् अनिन्द्यवर्णा उपोपवेष्टुं भुवि यत्र वाली
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0