भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 4.019

4.019.001

स वानरमहाराजः शयानः शरविक्षतः
प्रत्युक्तो हेतुमद्वाक्यैर् नोत्तरं प्रत्यपद्यत

4.019.002

अश्मभिः परिभिन्नाङ्गः पादपैर् आहतो भृशम्
रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः

4.019.003

तं भार्याबाणमोक्षेण रामदत्तेन संयुगे
हतं प्लवगशार्दूलं तारा शुश्राव वालिनम्

4.019.004

सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम्
निष्पपात भृशं त्रस्ता विविधाद् गिरिगह्वरात्

4.019.005

ये त्व् अङ्गदपरीवारा वानरा हि महाबलाः
ते सकार्मुकम् आलोक्य रामं त्रस्ताः प्रदुद्रुवुः

4.019.006

सा ददर्श ततस् त्रस्तान् हरीन् आपततो द्रुतम्
यूथाद् इव परिभ्रष्टान् मृगान् निहतयूथपान्

4.019.007

तान् उवाच समासाद्य दुःखितान् दुःखिता सती
राम वित्रासितान् सर्वान् अनुबद्धान् इवेषुभिः

4.019.008

वानरा राजसिंहस्य यस्य यूयं पुरःसराः
तं विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः

4.019.009

राज्यहेतोः स चेद् भ्राता भ्राता रौद्रेण पातितः
रामेण प्रसृतैर् दूरान् मार्गणैर् दूर पातिभिः

4.019.010

कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः
प्राप्तकालम् अविश्लिष्टम् ऊचुर् वचनम् अङ्गनाम्

4.019.011

जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम्
अन्तको राम रूपेण हत्वा नयति वालिनम्

4.019.012

क्षिप्तान् वृक्षान् समाविध्य विपुलाश् च शिलास् तथा
वाली वज्रसमैर् बाणैर् वज्रेणेव निपातितः

4.019.013

अभिद्रुतम् इदं सर्वं विद्रुतं प्रसृतं बलम्
अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे

4.019.014

रक्ष्यतां नगरं शूरैर् अङ्गदश् चाभिषिच्यताम्
पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः

4.019.015

अथ वा रुचिरं स्थानम् इह ते रुचिरानने
आविशन्ति हि दुर्गाणि क्षिप्रम् अद्यैव वानराः

4.019.016

अभार्याः सह भार्याश् च सन्त्य् अत्र वनचारिणः
लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस् तुमुलं भयम्

4.019.017

अल्पान्तरगतानां तु श्रुत्वा वचनम् अङ्गना
आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी

4.019.018

पुत्रेण मम किं कार्यं किं राज्येन किम् आत्मना
कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति

4.019.019

पादमूलं गमिष्यामि तस्यैवाहं महात्मनः
यो ऽसौ रामप्रयुक्तेन शरेण विनिपातितः

4.019.020

एवम् उक्त्वा प्रदुद्राव रुदती शोककर्शिता
शिरश् चोरश् च बाहुभ्यां दुःखेन समभिघ्नती

4.019.021

आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि
हन्तारं दानवेन्द्राणां समरेष्व् अनिवर्तिनाम्

4.019.022

क्षेप्तारं पर्वतेन्द्राणां वज्राणाम् इव वासवम्
महावातसमाविष्टं महामेघौघनिःस्वनम्

4.019.023

शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम्
नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम्

4.019.024

शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम्
अर्चितं सर्वलोकस्य सपताकं सवेदिकम्

4.019.025

नागहेतोः सुपर्णेन चैत्यम् उन्मथितं यथा
अवष्टभ्यावतिष्ठन्तं ददर्श धनुर् ऊर्जितम्

4.019.026

रामं रामानुजं चैव भर्तुश् चैवानुजं शुभा
तान् अतीत्य समासाद्य भर्तारं निहतं रणे

4.019.027

समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह
सुप्तेव पुनर् उत्थाय आर्यपुत्रेति क्रोशती

4.019.028

रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः
ताम् अवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीम् इव

4.019.029

विषादम् अगमत् कष्टं दृष्ट्वा चाङ्गदम् आगतम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc