रामायण · अध्याय 4.021
ततो निपतितां तारां च्युतां ताराम् इवाम्बरात्
शनैर् आश्वासयाम् आस हनूमान् हरियूथपः
गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम्
अव्यग्रस् तद् अवाप्नोति सर्वं प्रेत्य शुभाशुभम्
शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे
कश् च कस्यानुशोच्यो ऽस्ति देहे ऽस्मिन् बुद्बुदोपमे
अङ्गदस् तु कुमारो ऽयं द्रष्टव्यो जीवपुत्रया
आयत्या च विधेयानि समर्थान्य् अस्य चिन्तय
जानास्य् अनियताम् एवं भूतानाम् आगतिं गतिम्
तस्माच् छुभं हि कर्तव्यं पण्डिते नैहलौकिकम्
यस्मिन् हरिसहस्राणि प्रयुतान्य् अर्बुदानि च
वर्तयन्ति कृतांशानि सो ऽयं दिष्टान्तम् आगतः
यद् अयं न्यायदृष्टार्थः सामदानक्षमापरः
गतो धर्मजितां भूमिं नैनं शोचितुम् अर्हसि
सर्वे च हरिशार्दूल पुत्रश् चायं तवाङ्गदः
हर्यृष्कपतिराज्यं च त्वत्सनाथम् अनिन्दिते
ताव् इमौ शोकसंतप्तौ शनैः प्रेरय भामिनि
त्वया परिगृहीतो ऽयम् अङ्गदः शास्तु मेदिनीम्
संततिश् च यथादृष्टा कृत्यं यच् चापि साम्प्रतम्
राज्ञस् तत् क्रियतां सर्वम् एष कालस्य निश्चयः
संस्कार्यो हरिराजस् तु अङ्गदश् चाभिषिच्यताम्
सिंहासनगतं पुत्रं पश्यन्ती शान्तिम् एष्यसि
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता
अब्रवीद् उत्तरं तारा हनूमन्तम् अवस्थितम्
अङ्गद प्रतिरूपाणां पुत्राणाम् एकतः शतम्
हतस्याप्य् अस्य वीरस्य गात्रसंश्लेषणं वरम्
न चाहं हरिराजस्य प्रभवाम्य् अङ्गदस्य वा
पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्व् अनन्तरः
न ह्य् एषा बुद्धिर् आस्थेया हनूमन्न् अङ्गदं प्रति
पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम
न हि मम हरिराजसंश्रयात् क्षमतरम् अस्ति परत्र चेह वा
अभिमुखहतवीरसेवितं शयनम् इदं मम सेवितुं क्षमम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0