रामायण · अध्याय 4.008
परितुष्टस् तु सुग्रीवस् तेन वाक्येन वानरः
लक्ष्मणस्याग्रजं रामम् इदं वचनम् अब्रवीत्
सर्वथाहम् अनुग्राह्यो देवतानाम् असंशयः
उपपन्नगुणोपेतः सखा यस्य भवान् मम
शक्यं खलु भवेद् राम सहायेन त्वयानघ
सुरराज्यम् अपि प्राप्तुं स्वराज्यं किं पुनः प्रभो
सो ऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव
यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्
अहम् अप्य् अनुरूपस् ते वयस्यो ज्ञास्यसे शनैः
न तु वक्तुं समर्थो ऽहं स्वयम् आत्मगतान् गुणान्
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम्
निश्चला भवति प्रीतिर् धैर्यम् आत्मवताम् इव
रजतं वा सुवर्णं वा वस्त्राण्य् आभरणानि वा
अविभक्तानि साधूनाम् अवगच्छन्ति साधवः
आढ्यो वापि दरिद्रो वा दुःखितः सुखितो ऽपि वा
निर्दोषो वा सदोषो वा वयस्यः परमा गतिः
धनत्यागः सुखत्यागो देहत्यागो ऽपि वा पुनः
वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम्
तत् तथेत्य् अब्रवीद् रामः सुग्रीवं प्रियवादिनम्
लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम्
सुग्रीवः सर्वतश् चक्षुर् वने लोलम् अपातयत्
स ददर्श ततः सालम् अविदूरे हरीश्वरः
सुपुष्पम् ईषत्पत्राढ्यं भ्रमरैर् उपशोभितम्
तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः
ताव् आसीनौ ततो दृष्ट्वा हनूमान् अपि लक्ष्मणम्
सालशाखां समुत्पाट्य विनीतम् उपवेशयत्
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा
उवाच प्रणयाद् रामं हर्षव्याकुलिताक्षरम्
अहं विनिकृतो भ्रात्रा चराम्य् एष भयार्दितः
ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः
सो ऽहं त्रस्तो भये मग्नो वसाम्य् उद्भ्रान्तचेतनः
वालिना निकृतो भ्रात्रा कृतवैरश् च राघव
वालिनो मे भयार्तस्य सर्वलोकाभयंकर
ममापि त्वम् अनाथस्य प्रसादं कर्तुम् अर्हसि
एवम् उक्तस् तु तेजस्वी धर्मज्ञो धर्मवत्सलः
प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्न् इव
उपकारफलं मित्रम् अपकारो ऽरिलक्षणम्
अद्यैव तं हनिष्यामि तव भार्यापहारिणम्
इमे हि मे महावेगाः पत्रिणस् तिग्मतेजसः
कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः
कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः
सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव
भ्रातृसंज्ञम् अमित्रं ते वालिनं कृतकिल्बिषम्
शरैर् विनिहतं पश्य विकीर्णम् इव पर्वतम्
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः
प्रहर्षम् अतुलं लेभे साधु साध्व् इति चाब्रवीत्
रामशोकाभिभूतो ऽहं शोकार्तानां भवान् गतिः
वयस्य इति कृत्वा हि त्वय्य् अहं परिदेवये
त्वं हि पाणिप्रदानेन वयस्यो सो ऽग्निसाक्षिकः
कृतः प्राणैर् बहुमतः सत्येनापि शपाम्य् अहम्
वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्य् अहम्
दुःखम् अन्तर्गतं यन् मे मनो दहति नित्यशः
एतावद् उक्त्वा वचनं बाष्पदूषितलोचनः
बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम्
बाष्पवेगं तु सहसा नदीवेगम् इवागतम्
धारयाम् आस धैर्येण सुग्रीवो रामसंनिधौ
संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे
विनिःश्वस्य च तेजस्वी राघवं पुनर् अब्रवीत्
पुराहं वलिना राम राज्यात् स्वाद् अवरोपितः
परुषाणि च संश्राव्य निर्धूतो ऽस्मि बलीयसा
हृता भार्या च मे तेन प्राणेभ्यो ऽपि गरीयसी
सुहृदश् च मदीया ये संयता बन्धनेषु ते
यत्नवांश् च सुदुष्टात्मा मद् विनाशाय राघव
बहुशस् तत् प्रयुक्ताश् च वानरा निहता मया
शङ्कया त्व् एतया चाहं दृष्ट्वा त्वाम् अपि राघव
नोपसर्पाम्य् अहं भीतो भये सर्वे हि बिभ्यति
केवलं हि सहाया मे हनुमत् प्रमुखास् त्व् इमे
अतो ऽहं धारयाम्य् अद्य प्राणान् कृच्छ्र गतो ऽपि सन्
एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः
सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते
संक्षेपस् त्व् एष मे राम किम् उक्त्वा विस्तरं हि ते
स मे ज्येष्ठो रिपुर् भ्राता वाली विश्रुतपौरुषः
तद्विनाशाद् धि मे दुःखं प्रनष्टं स्याद् अनन्तरम्
सुखं मे जीवितं चैव तद्विनाशनिबन्धनम्
एष मे राम शोकान्तः शोकार्तेन निवेदितः
दुःखितो ऽदुःखितो वापि सख्युर् नित्यं सखा गतिः
श्रुत्वैतच् च वचो रामः सुग्रीवम् इदम् अब्रवीत्
किंनिमित्तम् अभूद् वैरं श्रोतुम् इच्छामि तत्त्वतः
सुखं हि कारणं श्रुत्वा वैरस्य तव वानर
आनन्तर्यं विधास्यामि संप्रधार्य बलाबलम्
बलवान् हि ममामर्षः श्रुत्वा त्वाम् अवमानितम्
वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः
हृष्टः कथय विस्रब्धो यावद् आरोप्यते धनुः
सृष्टश् च हि मया बाणो निरस्तश् च रिपुस् तव
एवम् उक्तस् तु सुग्रीवः काकुत्स्थेन महात्मना
प्रहर्षम् अतुलं लेभे चतुर्भिः सह वानरैः
ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे
वैरस्य कारणं तत्त्वम् आख्यातुम् उपचक्रमे
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0