भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.046

1.046.001

सप्तधा तु कृते गर्भे दितिः परमदुःखिता
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्

1.046.002

ममापराधाद् गर्भो ऽयं सप्तधा विफलीकृतः
नापराधो ऽस्ति देवेश तवात्र बलसूदन

1.046.003

प्रियं तु कृतम् इच्छामि मम गर्भविपर्यये
मरुतां सप्तं सप्तानां स्थानपाला भवन्त्व् इमे

1.046.004

वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः
मारुता इति विख्याता दिव्यरूपा ममात्मजाः

1.046.005

ब्रह्मलोकं चरत्व् एक इन्द्रलोकं तथापरः
दिवि वायुर् इति ख्यातस् तृतीयो ऽपि महायशाः

1.046.006

चत्वारस् तु सुरश्रेष्ठ दिशो वै तव शासनात्
संचरिष्यन्ति भद्रं ते देवभूता ममात्मजाः
त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः

1.046.007

तस्यास् तद् वचनं श्रुत्वा सहस्राक्षः पुरंदरः
उवाच प्राञ्जलिर् वाक्यं दितिं बलनिषूदनः

1.046.008

सर्वम् एतद् यथोक्तं ते भविष्यति न संशयः
विचरिष्यन्ति भद्रं ते देवभूतास् तवात्मजाः

1.046.009

एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने
जग्मतुस् त्रिदिवं राम कृतार्थाव् इति नः श्रुतम्

1.046.010

एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा
दितिं यत्र तपः सिद्धाम् एवं परिचचार सः

1.046.011

इक्ष्वाकोस् तु नरव्याघ्र पुत्रः परमधार्मिकः
अलम्बुषायाम् उत्पन्नो विशाल इति विश्रुतः

1.046.012

तेन चासीद् इह स्थाने विशालेति पुरी कृता

1.046.013

विशालस्य सुतो राम हेमचन्द्रो महाबलः
सुचन्द्र इति विख्यातो हेमचन्द्राद् अनन्तरः

1.046.014

सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः
धूम्राश्वतनयश् चापि सृञ्जयः समपद्यत

1.046.015

सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्
कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः

1.046.016

कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्
सोमदत्तस्य पुत्रस् तु काकुत्स्थ इति विश्रुतः

1.046.017

तस्य पुत्रो महातेजाः संप्रत्य् एष पुरीम् इमाम्
आवसत्य् अमरप्रख्यः सुमतिर् नाम दुर्जयः

1.046.018

इक्ष्वाकोस् तु प्रसादेन सर्वे वैशालिका नृपाः
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः

1.046.019

इहाद्य रजनीं राम सुखं वत्स्यामहे वयम्
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुम् अर्हसि

1.046.020

सुमतिस् तु महातेजा विश्वामित्रम् उपागतम्
श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन् महायशाः

1.046.021

पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः
प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रम् अथाब्रवीत्

1.046.022

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे विषयं मुने
संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc