भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.047

1.047.001

पृष्ट्वा तु कुशलं तत्र परस्परसमागमे
कथान्ते सुमतिर् वाक्यं व्याजहार महामुनिम्

1.047.002

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ
गजसिंहगती वीरौ शार्दूलवृषभोपमौ

1.047.003

पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ
अश्विनाव् इव रूपेण समुपस्थितयौवनौ

1.047.004

यदृच्छयैव गां प्राप्तौ देवलोकाद् इवामरौ
कथं पद्भ्याम् इह प्राप्तौ किमर्थं कस्य वा मुने

1.047.005

भूषयन्ताव् इमं देशं चन्द्रसूर्याव् इवाम्बरम्
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः

1.047.006

किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि
वरायुधधरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः

1.047.007

तस्य तद् वचनं श्रुत्वा यथावृत्तं न्यवेदयत्
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा

1.047.008

विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः
अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ
पूजयाम् आस विधिवत् सत्कारार्हौ महाबलौ

1.047.009

ततः परमसत्कारं सुमतेः प्राप्य राघवौ
उष्य तत्र निशाम् एकां जग्मतुर् मिथिलां ततः

1.047.010

तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्
साधु साध्व् इति शंसन्तो मिथिलां समपूजयन्

1.047.011

मिथिलोपवने तत्र आश्रमं दृश्य राघवः
पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम्

1.047.012

श्रीमदाश्रमसंकाशं किं न्व् इदं मुनिवर्जितम्
श्रोतुम् इच्छामि भगवन् कस्यायं पूर्व आश्रमः

1.047.013

तच् छ्रुता राघवेणोक्तं वाक्यं वाक्यविशारदः
प्रत्युवाच महातेजा विश्वमित्रो महामुनिः

1.047.014

हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव
यस्यैतद् आश्रमपदं शप्तं कोपान् महात्मना

1.047.015

गौतमस्य नरश्रेष्ठ पूर्वम् आसीन् महात्मनः
आश्रमो दिव्यसंकाशः सुरैर् अपि सुपूजितः

1.047.016

स चेह तप आतिष्ठद् अहल्यासहितः पुरा
वर्षपूगान्य् अनेकानि राजपुत्र महायशः

1.047.017

तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः
मुनिवेषधरो ऽहल्याम् इदं वचनम् अब्रवीत्

1.047.018

ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते
संगमं त्व् अहम् इच्छामि त्वया सह सुमध्यमे

1.047.019

मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन
मतिं चकार दुर्मेधा देवराजकुतूहलात्

1.047.020

अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना
कृतार्थो ऽसि सुरश्रेष्ठ गच्छ शीघ्रम् इतः प्रभो
आत्मानं मां च देवेश सर्वदा रक्ष मानदः

1.047.021

इन्द्रस् तु प्रहसन् वाक्यम् अहल्याम् इदम् अब्रवीत्
सुश्रोणि परितुष्टो ऽस्मि गमिष्यामि यथागतम्

1.047.022

एवं संगम्य तु तया निश्चक्रामोटजात् ततः
स संभ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति

1.047.023

गौतमं स ददर्शाथ प्रविशन्तं महामुनिम्
देवदानवदुर्धर्षं तपोबलसमन्वितम्
तीर्थोदकपरिक्लिन्नं दीप्यमानम् इवानलम्
गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम्

1.047.024

दृष्ट्वा सुरपतिस् त्रस्तो विषण्णवदनो ऽभवत्

1.047.025

अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः
दुर्वृत्तं वृत्तसंपन्नो रोषाद् वचनम् अब्रवीत्

1.047.026

मम रूपं समास्थाय कृतवान् असि दुर्मते
अकर्तव्यम् इदं यस्माद् विफलस् त्वं भविष्यति

1.047.027

गौतमेनैवम् उक्तस्य सरोषेण महात्मना
पेततुर् वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात्

1.047.028

तथा शप्त्वा स वै शक्रं भार्याम् अपि च शप्तवान्
इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि

1.047.029

वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी
अदृश्या सर्वभूतानाम् आश्रमे ऽस्मिन् निवत्स्यसि

1.047.030

यदा चैतद् वनं घोरं रामो दशरथात्मजः
आगमिष्यति दुर्धर्षस् तदा पूता भविष्यसि

1.047.031

तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता
मत्सकाशे मुदा युक्ता स्वं वपुर् धारयिष्यसि

1.047.032

एवम् उक्त्वा महातेजा गौतमो दुष्टचारिणीम्
इमम् आश्रमम् उत्सृज्य सिद्धचारणसेविते
हिमवच्छिखरे रम्ये तपस् तेपे महातपाः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc