भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.045

1.045.001

हतेषु तेषु पुत्रेषु दितिः परमदुःखिता
मारीचं काश्यपं राम भर्तारम् इदम् अब्रवीत्

1.045.002

हतपुत्रास्मि भगवंस् तव पुत्रैर् महाबलैः
शक्रहन्तारम् इच्छामि पुत्रं दीर्घतपोऽर्जितम्

1.045.003

साहं तपश् चरिष्यामि गर्भं मे दातुम् अर्हसि
ईदृशं शक्रहन्तारं त्वम् अनुज्ञातुम् अर्हसि

1.045.004

तस्यास् तद् वचनं श्रुत्वा मारीचः काश्यपस् तदा
प्रत्युवाच महातेजा दितिं परमदुःखिताम्

1.045.005

एवं भवतु भद्रं ते शुचिर् भव तपोधने
जनयिष्यसि पुत्रं त्वं शक्र हन्तारम् आहवे

1.045.006

पूर्णे वर्षसहस्रे तु शुचिर् यदि भविष्यसि
पुत्रं त्रैलोक्य हन्तारं मत्तस् त्वं जनयिष्यसि

1.045.007

एवम् उक्त्वा महातेजाः पाणिना स ममार्ज ताम्
समालभ्य ततः स्वस्तीत्य् उक्त्वा स तपसे ययौ

1.045.008

गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता
कुशप्लवनम् आसाद्य तपस् तेपे सुदारुणम्

1.045.009

तपस् तस्यां हि कुर्वत्यां परिचर्यां चकार ह
सहस्राक्षो नरश्रेष्ठ परया गुणसंपदा

1.045.010

अग्निं कुशान् काष्ठम् अपः फलं मूलं तथैव च
न्यवेदयत् सहस्राक्षो यच् चान्यद् अपि काङ्क्षितम्

1.045.011

गात्रसंवाहनैश् चैव श्रमापनयनैस् तथा
शक्रः सर्वेषु कालेषु दितिं परिचचार ह

1.045.012

अथ वर्षसहस्रेतु दशोने रघु नन्दन
दितिः परमसंप्रीता सहस्राक्षम् अथाब्रवीत्

1.045.013

तपश् चरन्त्या वर्षाणि दश वीर्यवतां वर
अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः

1.045.014

तम् अहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम्
त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः

1.045.015

एवम् उक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे
निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः

1.045.016

दृष्ट्वा ताम् अशुचिं शक्रः पादतः कृतमूर्धजाम्
शिरःस्थाने कृतौ पादौ जहास च मुमोद च

1.045.017

तस्याः शरीरविवरं विवेश च पुरंदरः
गर्भं च सप्तधा राम बिभेद परमात्मवान्

1.045.018

बिध्यमानस् ततो गर्भो वज्रेण शतपर्वणा
रुरोद सुस्वरं राम ततो दितिर् अबुध्यत

1.045.019

मा रुदो मा रुदश् चेति गर्भं शक्रो ऽभ्यभाषत
बिभेद च महातेजा रुदन्तम् अपि वासवः

1.045.020

न हन्तव्यो न हन्तव्य इत्य् एवं दितिर् अब्रवीत्
निष्पपात ततः शक्रो मातुर् वचनगौरवात्

1.045.021

प्राञ्जलिर् वज्रसहितो दितिं शक्रो ऽभ्यभाषत
अशुचिर् देवि सुप्तासि पादयोः कृतमूर्धजा

1.045.022

तदन्तरम् अहं लब्ध्वा शक्रहन्तारम् आहवे
अभिन्दं सप्तधा देवि तन् मे त्वं क्षन्तुम् अर्हसि

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc