रामायण · अध्याय 1.036
तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा
सेनापतिम् अभीप्सन्तः पितामहम् उपागमन्
ततो ऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम्
प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः
यो नः सेनापतिर् देव दत्तो भगवता पुरा
स तपः परम् आस्थाय तप्यते स्म सहोमया
यद् अत्रानन्तरं कार्यं लोकानां हितकाम्यया
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः
देवतानां वचः श्रुत्वा सर्वलोकपितामहः
सान्त्वयन् मधुरैर् वाक्यैस् त्रिदशान् इदम् अब्रवीत्
शैलपुत्र्या यद् उक्तं तन् न प्रजास्यथ पत्निषु
तस्या वचनम् अक्लिष्टं सत्यम् एव न संशयः
इयम् आकाशगा गङ्गा यस्यां पुत्रं हुताशनः
जनयिष्यति देवानां सेनापतिम् अरिंदमम्
ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम्
उमायास् तद् बहुमतं भविष्यति न संशयः
तच् छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन
प्रणिपत्य सुराः सर्वे पितामहम् अपूजयन्
ते गत्वा पर्वतं राम कैलासं धातुमण्डितम्
अग्निं नियोजयाम् आसुः पुत्रार्थं सर्वदेवताः
देवकार्यम् इदं देव समाधत्स्व हुताशन
शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज
देवतानां प्रतिज्ञाय गङ्गाम् अभ्येत्य पावकः
गर्भं धारय वै देवि देवतानाम् इदं प्रियम्
इत्य् एतद् वचनं श्रुत्वा दिव्यं रूपम् अधारयत्
स तस्या महिमां दृष्ट्वा समन्ताद् अवकीर्यत
समन्ततस् तदा देवीम् अभ्यषिञ्चत पावकः
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन
तम् उवाच ततो गङ्गा सर्वदेवपुरोहितम्
अशक्ता धारणे देव तव तेजः समुद्धतम्
दह्यमानाग्निना तेन संप्रव्यथितचेतना
अथाब्रवीद् इदं गङ्गां सर्वदेवहुताशनः
इह हैमवते पादे गर्भो ऽयं संनिवेश्यताम्
श्रुत्वा त्व् अग्निवचो गङ्गा तं गर्भम् अतिभास्वरम्
उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ
यद् अस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम्
काञ्चनं धरणीं प्राप्तं हिरण्यम् अमलं शुभम्
ताम्रं कार्ष्णायसं चैव तैक्ष्ण्याद् एवाभिजायत
मलं तस्याभवत् तत्र त्रपुसीसकम् एव च
तद् एतद् धरणीं प्राप्य नानाधातुर् अवर्धत
निक्षिप्तमात्रे गर्भे तु तेजोभिर् अभिरञ्जितम्
सर्वं पर्वतसंनद्धं सौवर्णम् अभवद् वनम्
जातरूपम् इति ख्यातं तदा प्रभृति राघव
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम्
तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः
क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन्
ताः क्षीरं जातमात्रस्य कृत्वा समयम् उत्तमम्
ददुः पुत्रो ऽयम् अस्माकं सर्वासाम् इति निश्चिताः
ततस् तु देवताः सर्वाः कार्तिकेय इति ब्रुवन्
पुत्रस् त्रैलोक्य विख्यातो भविष्यति न संशयः
तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे
स्नापयन् परया लक्ष्म्या दीप्यमानम् इवानलम्
स्कन्द इत्य् अब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात्
कार्तिकेयं महाभागं काकुत्स्थज्वलनोपमम्
प्रादुर्भूतं ततः क्षीरं कृत्तिकानाम् अनुत्तमम्
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः
गृहीत्वा क्षीरम् एकाह्ना सुकुमार वपुस् तदा
अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः
सुरसेनागणपतिं ततस् तम् अमलद्युतिम्
अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः
एष ते राम गङ्गाया विस्तरो ऽभिहितो मया
कुमारसंभवश् चैव धन्यः पुण्यस् तथैव च
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0