भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.035

1.035.001

उक्त वाक्ये मुनौ तस्मिन्न् उभौ राघवलक्ष्मणौ
प्रतिनन्द्य कथां वीराव् ऊचतुर् मुनिपुंगवम्

1.035.002

धर्मयुक्तम् इदं ब्रह्मन् कथितं परमं त्वया
दुहितुः शैलराजस्य ज्येष्ठाय वक्तुम् अर्हसि

1.035.003

विस्तरं विस्तरज्ञो ऽसि दिव्यमानुषसंभवम्
त्रीन् पथो हेतुना केन पावयेल् लोकपावनी

1.035.004

कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता

1.035.005

तथा ब्रुवति काकुत्स्थे विश्वामित्रस् तपोधनः
निखिलेन कथां सर्वाम् ऋषिमध्ये न्यवेदयत्

1.035.006

पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः
दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे

1.035.007

शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम्
न चापि तनयो राम तस्याम् आसीत् परंतप

1.035.008

ततो देवाः समुद्विग्नाः पितामहपुरोगमाः
यद् इहोत्पद्यते भूतं कस् तत् प्रतिसहिष्यते

1.035.009

अभिगम्य सुराः सर्वे प्रणिपत्येदम् अब्रुवन्
देवदेव महादेव लोकस्यास्य हिते रत
सुराणां प्रणिपातेन प्रसादं कर्तुम् अर्हसि

1.035.010

न लोका धारयिष्यन्ति तव तेजः सुरोत्तम
ब्राह्मेण तपसा युक्तो देव्या सह तपश् चर

1.035.011

त्रैलोक्यहितकामार्थं तेजस् तेजसि धारय
रक्ष सर्वान् इमांल् लोकान् नालोकं कर्तुम् अर्हसि

1.035.012

देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः
बाढम् इत्य् अब्रवीत् सर्वान् पुनश् चेदम् उवाच ह

1.035.013

धारयिष्याम्य् अहं तेजस् तेजस्य् एव सहोमया
त्रिदशाः पृथिवी चैव निर्वाणम् अधिगच्छतु

1.035.014

यद् इदं क्षुभितं स्थानान् मम तेजो ह्य् अनुत्तमम्
धारयिष्यति कस् तन् मे ब्रुवन्तु सुरसत्तमाः

1.035.015

एवम् उक्तास् ततो देवाः प्रत्यूचुर् वृषभध्वजम्
यत् तेजः क्षुभितं ह्य् एतत् तद् धरा धारयिष्यति

1.035.016

एवम् उक्तः सुरपतिः प्रमुमोच महीतले
तेजसा पृथिवी येन व्याप्ता सगिरिकानना

1.035.017

ततो देवाः पुनर् इदम् ऊचुश् चाथ हुताशनम्
प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः

1.035.018

तद् अग्निना पुनर् व्याप्तं संजातः श्वेतपर्वतः
दिव्यं शरवणं चैव पावकादित्यसंनिभम्
यत्र जातो महातेजाः कार्तिकेयो ऽग्निसंभवः

1.035.019

अथोमां च शिवं चैव देवाः सर्षि गणास् तदा
पूजयाम् आसुर् अत्यर्थं सुप्रीतमनसस् ततः

1.035.020

अथ शैल सुता राम त्रिदशान् इदम् अब्रवीत्
समन्युर् अशपत् सर्वान् क्रोधसंरक्तलोचना

1.035.021

यस्मान् निवारिता चैव संगता पुत्रकाम्यया
अपत्यं स्वेषु दारेषु नोत्पादयितुम् अर्हथ
अद्य प्रभृति युष्माकम् अप्रजाः सन्तु पत्नयः

1.035.022

एवम् उक्त्वा सुरान् सर्वाञ् शशाप पृथिवीम् अपि
अवने नैकरूपा त्वं बहुभार्या भविष्यसि

1.035.023

न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषी कृता
प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रम् अनिच्छती

1.035.024

तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान् सुरपतिस् तदा
गमनायोपचक्राम दिशं वरुणपालिताम्

1.035.025

स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः
हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः

1.035.026

एष ते विस्तरो राम शैलपुत्र्या निवेदितः
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc