भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.037

1.037.001

तां कथां कौशिको रामे निवेद्य मधुराक्षरम्
पुनर् एवापरं वाक्यं काकुत्स्थम् इदम् अब्रवीत्

1.037.002

अयोध्याधिपतिः शूरः पूर्वम् आसीन् नराधिपः
सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः

1.037.003

वैदर्भदुहिता राम केशिनी नाम नामतः
ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी

1.037.004

अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि
द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता

1.037.005

ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस् तपः
हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ

1.037.006

अथ वर्ष शते पूर्णे तपसाराधितो मुनिः
सगराय वरं प्रादाद् भृगुः सत्यवतां वरः

1.037.007

अपत्यलाभः सुमहान् भविष्यति तवानघ
कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ

1.037.008

एका जनयिता तात पुत्रं वंशकरं तव
षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति

1.037.009

भाषमाणं नरव्याघ्रं राजपत्न्यौ प्रसाद्य तम्
ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा

1.037.010

एकः कस्याः सुतो ब्रह्मन् का बहूञ् जनयिष्यति
श्रोतुम् इच्छावहे ब्रह्मन् सत्यम् अस्तु वचस् तव

1.037.011

तयोस् तद् वचनं श्रुत्वा भृगुः परम धार्मिकः
उवाच परमां वाणीं स्वच्छन्दो ऽत्र विधीयताम्

1.037.012

एको वंशकरो वास्तु बहवो वा महाबलाः
कीर्तिमन्तो महोत्साहाः का वा कं वरम् इच्छति

1.037.013

मुनेस् तु वचनं श्रुत्वा केशिनी रघुनन्दन
पुत्रं वंशकरं राम जग्राह नृपसंनिधौ

1.037.014

षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान्

1.037.015

प्रदक्षिणम् ऋषिं कृत्वा शिरसाभिप्रणम्य च
जगाम स्वपुरं राजा सभार्या रघुनन्दन

1.037.016

अथ काले गते तस्मिञ् ज्येष्ठा पुत्रं व्यजायत
असमञ्ज इति ख्यातं केशिनी सगरात्मजम्

1.037.017

सुमतिस् तु नरव्याघ्र गर्भतुम्बं व्यजायत
षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः

1.037.018

घृतपूर्णेषु कुम्भेषु धात्र्यस् तान् समवर्धयन्
कालेन महता सर्वे यौवनं प्रतिपेदिरे

1.037.019

अथ दीर्घेण कालेन रूपयौवनशालिनः
षष्टिः पुत्रसहस्राणि सगरस्याभवंस् तदा

1.037.020

स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः
बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन
प्रक्षिप्य प्रहसन् नित्यं मज्जतस् तान् निरीक्ष्य वै

1.037.021

पौराणाम् अहिते युक्तः पित्रा निर्वासितः पुरात्

1.037.022

तस्य पुत्रो ऽंशुमान् नाम असमञ्जस्य वीर्यवान्
संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः

1.037.023

ततः कालेन महता मतिः समभिजायत
सगरस्य नरश्रेष्ठ यजेयम् इति निश्चिता

1.037.024

स कृत्वा निश्चयं राजा सोपाध्यायगणस् तदा
यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc