रामायण · अध्याय 1.031
ब्रह्मयोनिर् महान् आसीत् कुशो नाम महातपाः
वैदर्भ्यां जनयाम् आस चतुरः सदृशान् सुतान्
कुशाम्बं कुशनाभं च आधूर्तरजसं वसुम्
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया
तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः
क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम्
कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः
निवेशं चक्रिरे सर्वे पुराणां नृवरास् तदा
कुशाम्बस् तु महातेजाः कौशाम्बीम् अकरोत् पुरीम्
कुशनाभस् तु धर्मात्मा परं चक्रे महोदयम्
आधूर्तरजसो राम धर्मारण्यं महीपतिः
चक्रे पुरवरं राजा वसुश् चक्रे गिरिव्रजम्
एषा वसुमती राम वसोस् तस्य महात्मनः
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः
सुमागधी नदी रम्या मागधान् विश्रुताययौ
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते
सैषा हि मागधी राम वसोस् तस्य महात्मनः
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी
कुशनाभस् तु राजर्षिः कन्याशतम् अनुत्तमम्
जनयाम् आस धर्मात्मा घृताच्यां रघुनन्दन
तास् तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः
उद्यानभूमिम् आगम्य प्रावृषीव शतह्रदाः
गायन्त्यो नृत्यमानाश् च वादयन्त्यश् च राघव
आमोदं परमं जग्मुर् वराभरणभूषिताः
अथ ताश् चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि
उद्यानभूमिम् आगम्य तारा इव घनान्तरे
ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः
दृष्ट्वा सर्वात्मको वायुर् इदं वचनम् अब्रवीत्
अहं वः कामये सर्वा भार्या मम भविष्यथ
मानुषस् त्यज्यतां भावो दीर्घम् आयुर् अवाप्स्यथ
तस्य तद् वचनं श्रुत्वा वायोर् अक्लिष्टकर्मणः
अपहास्य ततो वाक्यं कन्याशतम् अथाब्रवीत्
अन्तश् चरसि भूतानां सर्वेषां त्वं सुरोत्तम
प्रभावज्ञाश् च ते सर्वाः किम् अस्मान् अवमन्यसे
कुशनाभसुताः सर्वाः समर्थास् त्वां सुरोत्तम
स्थानाच् च्यावयितुं देवं रक्षामस् तु तपो वयम्
मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम्
नावमन्यस्व धर्मेण स्वयं वरम् उपास्महे
पिता हि प्रभुर् अस्माकं दैवतं परमं हि सः
यस्य नो दास्यति पिता स नो भर्ता भविष्यति
तासां तद् वचनं श्रुत्वा वायुः परमकोपनः
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः
ताः कन्या वायुना भग्ना विविशुर् नृपतेर् गृहम्
दृष्ट्वा भग्नास् तदा राजा संभ्रान्त इदम् अब्रवीत्
किम् इदं कथ्यतां पुत्र्यः को धर्मम् अवमन्यते
कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0