भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.030

1.030.001

अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ
ऊषतुर् मुदितौ वीरौ प्रहृष्टेनान्तरात्मना

1.030.002

प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ
विश्वामित्रम् ऋषींश् चान्यान् सहिताव् अभिजग्मतुः

1.030.003

अभिवाद्य मुनिश्रेष्ठं ज्वलन्तम् इव पावकम्
ऊचतुर् मधुरोदारं वाक्यं मधुरभाषिणौ

1.030.004

इमौ स्वो मुनिशार्दूल किंकरौ समुपस्थितौ
आज्ञापय यथेष्टं वै शासनं करवाव किम्

1.030.005

एवम् उक्ते ततस् ताभ्यां सर्व एव महर्षयः
विश्वामित्रं पुरस्कृत्य रामं वचनम् अब्रुवन्

1.030.006

मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति
यज्ञः परमधर्मिष्ठस् तत्र यास्यामहे वयम्

1.030.007

त्वं चैव नरशार्दूल सहास्माभिर् गमिष्यसि
अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुम् अर्हसि

1.030.008

तद् धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः
अप्रमेयबलं घोरं मखे परमभास्वरम्

1.030.009

नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः
कर्तुम् आरोपणं शक्ता न कथं चन मानुषाः

1.030.010

धनुषस् तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः
न शेकुर् आरोपयितुं राजपुत्रा महाबलाः

1.030.011

तद् धनुर् नरशार्दूल मैथिलस्य महात्मनः
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम्

1.030.012

तद् धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः
याचितं नरशार्दूल सुनाभं सर्वदैवतैः

1.030.013

एवम् उक्त्वा मुनिवरः प्रस्थानम् अकरोत् तदा
सर्षिसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः

1.030.014

स्वस्ति वो ऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमाद् अहम्
उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्

1.030.015

प्रदक्षिणं ततः कृत्वा सिद्धाश्रमम् अनुत्तमम्
उत्तरां दिशम् उद्दिश्य प्रस्थातुम् उपचक्रमे

1.030.016

तं व्रजन्तं मुनिवरम् अन्वगाद् अनुसारिणाम्
शकटी शतमात्रं तु प्रयाणे ब्रह्मवादिनाम्

1.030.017

मृगपक्षिगणाश् चैव सिद्धाश्रमनिवासिनः
अनुजग्मुर् महात्मानं विश्वामित्रं महामुनिम्

1.030.018

ते गत्वा दूरम् अध्वानं लम्बमाने दिवाकरे
वासं चक्रुर् मुनिगणाः शोणाकूले समाहिताः

1.030.019

ते ऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः
विश्वामित्रं पुरस्कृत्य निषेदुर् अमितौजसः

1.030.020

रामो ऽपि सहसौमित्रिर् मुनींस् तान् अभिपूज्य च
अग्रतो निषसादाथ विश्वामित्रस्य धीमतः

1.030.021

अथ रामो महातेजा विश्वामित्रं महामुनिम्
पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितः

1.030.022

भगवन् को न्व् अयं देशः समृद्धवनशोभितः
श्रोतुम् इच्छामि भद्रं ते वक्तुम् अर्हसि तत्त्वतः

1.030.023

चोदितो रामवाक्येन कथयाम् आस सुव्रतः
तस्य देशस्य निखिलम् ऋषिमध्ये महातपाः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc