रामायण · अध्याय 1.032
तस्य तद् वचनं श्रुत्वा कुशनाभस्य धीमतः
शिरोभिश् चरणौ स्पृष्ट्वा कन्याशतम् अभाषत
वायुः सर्वात्मको राजन् प्रधर्षयितुम् इच्छति
अशुभं मार्गम् आस्थाय न धर्मं प्रत्यवेक्षते
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव
तेन पापानुबन्धेन वचनं न प्रतीच्छता
एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृषम्
तासां तद् वचनं श्रुत्वा राजा परमधार्मिकः
प्रत्युवाच महातेजाः कन्याशतम् अनुत्तमम्
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम्
ऐकमत्यम् उपागम्य कुलं चावेक्षितं मम
अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा
दुष्करं तच् च वः क्षान्तं त्रिदशेषु विशेषतः
यादृशीर् वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः
क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत्
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः
मन्त्रज्ञो मन्त्रयाम् आस प्रदानं सह मन्त्रिभिः
देशे काले प्रदानस्य सदृशे प्रतिपादनम्
एतस्मिन्न् एव काले तु चूली नाम महामुनिः
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत्
तप्यन्तं तम् ऋषिं तत्र गन्धर्वी पर्युपासते
सोमदा नाम भद्रं ते ऊर्मिला तनया तदा
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा
उवास काले धर्मिष्ठा तस्यास् तुष्टो ऽभवद् गुरुः
स च तां कालयोगेन प्रोवाच रघुनन्दन
परितुष्टो ऽस्मि भद्रं ते किं करोमि तव प्रियम्
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम्
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः
ब्राह्मेण तपसा युक्तं पुत्रम् इच्छामि धार्मिकम्
अपतिश् चास्मि भद्रं ते भार्या चास्मि न कस्य चित्
ब्राह्मेणोपगतायाश् च दातुम् अर्हसि मे सुतम्
तस्याः प्रसन्नो ब्रह्मर्षिर् ददौ पुत्रम् अनुत्तमम्
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम्
स राजा ब्रह्मदत्तस् तु पुरीम् अध्यवसत् तदा
काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम्
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा
तम् आहूय महातेजा ब्रह्मदत्तं महीपतिः
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना
यथाक्रमं ततः पाणिं जग्राह रघुनन्दन
ब्रह्मदत्तो मही पालस् तासां देवपतिर् यथा
स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः
युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः
बभूव परमप्रीतो हर्षं लेभे पुनः पुनः
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः
सदारं प्रेषयाम् आस सोपाध्याय गणं तदा
सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम्
यथान्यायं च गन्धर्वी स्नुषास् ताः प्रत्यनन्दत
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0