रामायण · अध्याय 1.025
मुनेर् वचनम् अक्लीबं श्रुत्वा नरवरात्मजः
राघवः प्राञ्जलिर् भूत्वा प्रत्युवाच दृढव्रतः
पितुर् वचननिर्देशात् पितुर् वचनगौरवात्
वचनं कौशिकस्येति कर्तव्यम् अविशङ्कया
अनुशिष्टो ऽस्म्य् अयोध्यायां गुरुमध्ये महात्मना
पित्रा दशरथेनाहं नावज्ञेयं च तद् वचः
सो ऽहं पितुर् वचः श्रुत्वा शासनाद् ब्रह्म वादिनः
करिष्यामि न संदेहस् ताटकावधम् उत्तमम्
गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च
तव चैवाप्रमेयस्य वचनं कर्तुम् उद्यतः
एवम् उक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिम् अरिंदमः
ज्याशब्दम् अकरोत् तीव्रं दिशः शब्देन पूरयन्
तेन शब्देन वित्रस्तास् ताटका वनवासिनः
ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता
तं शब्दम् अभिनिध्याय राक्षसी क्रोधमूर्छिता
श्रुत्वा चाभ्यद्रवद् वेगाद् यतः शब्दो विनिःसृतः
तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम्
प्रमाणेनातिवृद्धां च लक्ष्मणं सो ऽभ्यभाषत
पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः
भिद्येरन् दर्शनाद् अस्या भीरूणां हृदयानि च
एनां पश्य दुराधर्षां माया बलसमन्विताम्
विनिवृत्तां करोम्य् अद्य हृतकर्णाग्रनासिकाम्
न ह्य् एनाम् उत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्
वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः
एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता
उद्यम्य बाहू गर्जन्ती रामम् एवाभ्यधावत
ताम् आपतन्तीं वेगेन विक्रान्ताम् अशनीम् इव
शरेणोरसि विव्याध सा पपात ममार च
तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस् तदा
साधु साध्व् इति काकुत्स्थं सुराश् च समपूजयन्
उवाच परमप्रीतः सहस्राक्षः पुरंदरः
सुराश् च सर्वे संहृष्टा विश्वामित्रम् अथाब्रुवन्
मुने कौशिके भद्रं ते सेन्द्राः सर्वे मरुद्गणाः
तोषिताः कर्मणानेन स्नेहं दर्शय राघवे
प्रजापतेर् कृशाश्वस्य पुत्रान् सत्यपराक्रमान्
तपोबलभृतान् ब्रह्मन् राघवाय निवेदय
पात्रभूतश् च ते ब्रह्मंस् तवानुगमने धृतः
कर्तव्यं च महत् कर्म सुराणां राजसूनुना
एवम् उक्त्वा सुराः सर्वे हृष्टा जग्मुर् यथागतम्
विश्वामित्रं पूजयित्वा ततः संध्या प्रवर्तते
ततो मुनिवरः प्रीतिस् ताटका वधतोषितः
मूर्ध्नि रामम् उपाघ्राय इदं वचनम् अब्रवीत्
इहाद्य रजनीं राम वसेम शुभदर्शन
श्वः प्रभाते गमिष्यामस् तद् आश्रमपदं मम
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0