भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.026

1.026.001

अथ तां रजनीम् उष्य विश्वामिरो महायशाः
प्रहस्य राघवं वाक्यम् उवाच मधुराक्षरम्

1.026.002

पतितुष्टो ऽस्मि भद्रं ते राजपुत्र महायशः
प्रीत्या परमया युक्तो ददाम्य् अस्त्राणि सर्वशः

1.026.003

देवासुरगणान् वापि सगन्धर्वोरगान् अपि
यैर् अमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि

1.026.004

तानि दिव्यानि भद्रं ते ददाम्य् अस्त्राणि सर्वशः
दण्डचक्रं महद् दिव्यं तव दास्यामि राघव

1.026.005

धर्मचक्रं ततो वीर कालचक्रं तथैव च
विष्णुचक्रं तथात्युग्रम् ऐन्द्रं चक्रं तथैव च

1.026.006

वज्रम् अस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा
अस्त्रं ब्रह्मशिरश् चैव ऐषीकम् अपि राघव
ददामि ते महाबाहो ब्राह्मम् अस्त्रम् अनुत्तमम्

1.026.007

गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज

1.026.008

धर्मपाशम् अहं राम कालपाशं तथैव च
वारुणं पाशम् अस्त्रं च ददान्य् अहम् अनुत्तमम्

1.026.009

अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन

1.026.010

ददामि चास्त्रं पैनाकम् अस्त्रं नारायणं तथा
आग्नेयम् अस्त्र दयितं शिखरं नाम नामतः

1.026.011

वायव्यं प्रथमं नाम ददामि तव राघव
अस्त्रं हयशिरो नाम क्रौञ्चम् अस्त्रं तथैव च

1.026.012

शक्ति द्वयं च काकुत्स्थ ददामि तव चानघ
कङ्कालं मुसलं घोरं कापालम् अथ कङ्कणम्

1.026.013

धारयन्त्य् असुरा यानि ददाम्य् एतानि सर्वशः
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः

1.026.014

असिरत्नं महाबाहो ददामि नृवरात्मज
गान्धर्वम् अस्त्रं दयितं मानवं नाम नामतः

1.026.015

प्रस्वापनप्रशमने दद्मि सौरं च राघव
दर्पणं शोषणं चैव संतापनविलापने

1.026.016

मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा
पैशाचम् अस्त्रं दयितं मोहनं नाम नामतः
प्रतीच्छ नरशार्दूल राजपुत्र महायशः

1.026.017

तामसं नरशार्दूल सौमनं च महाबलम्
संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज

1.026.018

सत्यम् अस्त्रं महाबाहो तथा मायाधरं परम्
घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम्

1.026.019

सोमास्त्रं शिशिरं नाम त्वाष्ट्रम् अस्त्रं सुदामनम्
दारुणं च भगस्यापि शीतेषुम् अथ मानवम्

1.026.020

एतान् नाम महाबाहो कामरूपान् महाबलान्
गृहाण परमोदारान् क्षिप्रम् एव नृपात्मज

1.026.021

स्थितस् तु प्राङ्मुखो भूत्वा शुचिर् निवरतस् तदा
ददौ रामाय सुप्रीतो मन्त्रग्रामम् अनुत्तमम्

1.026.022

जपतस् तु मुनेस् तस्य विश्वामित्रस्य धीमतः
उपतस्थुर् महार्हाणि सर्वाण्य् अस्त्राणि राघवम्

1.026.023

ऊचुश् च मुदिता रामं सर्वे प्राञ्जलयस् तदा
इमे स्म परमोदार किंकरास् तव राघव

1.026.024

प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना
मनसा मे भविष्यध्वम् इति तान्य् अभ्यचोदयत्

1.026.025

ततः प्रीतमना रामो विश्वामित्रं महामुनिम्
अभिवाद्य महातेजा गमनायोपचक्रमे

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc