रामायण · अध्याय 1.024
अथ तस्याप्रमेयस्य मुनेर् वचनम् उत्तमम्
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम्
अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुंगव
कथं नागसहस्रस्य धारयत्य् अबला बलम्
विश्वामित्रो ऽब्रवीद् वाक्यं शृणु येन बलोत्तरा
वरदानकृतं वीर्यं धारयत्य् अबला बलम्
पूर्वम् आसीन् महायक्षः सुकेतुर् नाम वीर्यवान्
अनपत्यः शुभाचारः स च तेपे महत् तपः
पितामहस् तु सुप्रीतस् तस्य यक्षपतेस् तदा
कन्यारत्नं ददौ राम ताटकां नाम नामतः
ददौ नागसहस्रस्य बलं चास्याः पितामहः
न त्व् एव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः
तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम्
जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम्
कस्य चित् त्व् अथ कालल्स्य यक्षी पुत्रं व्यजायत
मारीचं नाम दुर्धर्षं यः शापाद् राक्षसो ऽभवत्
सुन्दे तु निहते राम अगस्त्यम् ऋषिसत्तमम्
ताटका सह पुत्रेण प्रधर्षयितुम् इच्छति
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः
अगस्त्यः परमक्रुद्धस् ताटकाम् अपि शप्तवान्
पुरुषादी महायक्षी विरूपा विकृतानना
इदं रूपम् अपहाय दारुणं रूपम् अस्तु ते
सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता
देशम् उत्सादयत्य् एनम् अगस्त्यचरितं शुभम्
एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम्
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम्
न ह्य् एनां शापसंसृष्टां कश् चिद् उत्सहते पुमान्
निहन्तुं त्रिषु लोकेषु त्वाम् ऋते रघुनन्दन
न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम
चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना
राज्यभारनियुक्तानाम् एष धर्मः सनातनः
अधर्म्यां जहि काकुत्स्थ धर्मो ह्य् अस्या न विद्यते
श्रूयते हि पुरा शक्रो विरोचनसुतां नृप
पृथिवीं हन्तुम् इच्छन्तीं मन्थराम् अभ्यसूदयत्
विष्णुना च पुरा राम भृगुपत्नी दृढव्रता
अनिन्द्रं लोकम् इच्छन्ती काव्यमाता निषूदिता
एतैश् चान्यैश् च बहुभी राजपुत्रमहात्मभिः
अधर्मनिरता नार्यो हताः पुरुषसत्तमैः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0