रामायण · अध्याय 1.021
तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम्
प्रहृष्टवदनो रामम् आजुहाव सलक्ष्मणम्
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च
पुरोधसा वसिष्ठेन मङ्गलैर् अभिमन्त्रितम्
स पुत्रं मूर्ध्न्य् उपाघ्राय राजा दशरथः प्रियम्
ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना
ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा
विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम्
पुष्पवृष्टिर् महत्य् आसीद् देवदुन्दुभिनिस्वनः
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि
विश्वामित्रो ययाव् अग्रे ततो रामो महायशाः
काकपक्षधरो धन्वी तं च सौमित्रिर् अन्वगात्
कलापिनौ धनुष्पाणी शोभयानौ दिशो दश
विश्वामित्रं महात्मानं त्रिशीर्षाव् इव पन्नगौ
अनुजग्मतुर् अक्षुद्रौ पितामहम् इवाश्विनौ
बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती
स्थाणुं देवम् इवाचिन्त्यं कुमाराव् इव पावकी
अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे
रामेति मधुरा वाणीं विश्वामित्रो ऽभ्यभाषत
गृहाण वत्स सलिलं मा भूत् कालस्य पर्ययः
मन्त्रग्रामं गृहाण त्वं बलाम् अतिबलां तथा
न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः
न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः
न बाह्वोः सदृशो वीर्ये पृथिव्याम् अस्ति कश् चन
त्रिषु लोकेषु वा राम न भवेत् सदृशस् तव
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये
नोत्तरे प्रतिपत्तव्यो समो लोके तवानघ
एतद्विद्याद्वये लब्धे भविता नास्ति ते समः
बला चातिबला चैव सर्वज्ञानस्य मातरौ
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम
बलाम् अतिबलां चैव पठतः पथि राघव
विद्याद्वयम् अधीयाने यशश् चाप्य् अतुलं भुवि
पितामहसुते ह्य् एते विद्ये तेजःसमन्विते
प्रदातुं तव काकुत्स्थ सदृशस् त्वं हि धार्मिक
कामं बहुगुणाः सर्वे त्वय्य् एते नात्र संशयः
तपसा संभृते चैते बहुरूपे भविष्यतः
ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः
प्रतिजग्राह ते विद्ये महर्षेर् भावितात्मनः
विद्यासमुदितो रामः शुशुभे भूरिविक्रमः
गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे
ऊषुस् तां रजनीं तत्र सरय्वां सुसुखं त्रयः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0