रामायण · अध्याय 1.022
प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः
अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे
कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवम् आह्निकम्
तस्यर्षेः परमोदारं वचः श्रुत्वा नृपात्मजौ
स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम्
कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम्
अभिवाद्याभिसंहृष्टौ गमनायोपतस्थतुः
तौ प्रयाते महावीर्यौ दिव्यं त्रिपथगां नदीम्
ददृशाते ततस् तत्र सरय्वाः संगमे शुभे
तत्राश्रमपदं पुण्यम् ऋषीणाम् उग्रतेजसाम्
बहुवर्षसहस्राणि तप्यतां परमं तपः
तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यम् आश्रमम्
ऊचतुस् तं महात्मानं विश्वामित्रम् इदं वचः
कस्यायम् आश्रमः पुण्यः को न्व् अस्मिन् वसते पुमान्
भगवञ् श्रोतुम् इच्छावः परं कौतूहलं हि नौ
तयोस् तद् वचनं श्रुत्वा प्रहस्य मुनिपुंगवः
अब्रवीच् छ्रूयतां राम यस्यायं पूर्व आश्रमः
कन्दर्पो मूर्तिमान् आसीत् काम इत्य् उच्यते बुधैः
तपस्यन्तम् इह स्थाणुं नियमेन समाहितम्
कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम्
धर्षयाम् आस दुर्मेधा हुंकृतश् च महात्मना
दग्धस्य तस्य रौद्रेण चक्षुषा रघुनन्दन
व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः
तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना
अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह
अनङ्ग इति विख्यातस् तदा प्रभृति राघव
स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह
तस्यायम् आश्रमः पुण्यस् तस्येमे मुनयः पुरा
शिष्या धर्मपरा वीर तेषां पापं न विद्यते
इहाद्य रजनीं राम वसेम शुभदर्शन
पुण्ययोः सरितोर् मध्ये श्वस् तरिष्यामहे वयम्
तेषां संवदतां तत्र तपो दीर्घेण चक्षुषा
विज्ञाय परमप्रीता मुनयो हर्षम् आगमन्
अर्घ्यं पाद्यं तथातिथ्यं निवेद्यकुशिकात्मजे
रामलक्ष्मणयोः पश्चाद् अकुर्वन्न् अतिथिक्रियाम्
सत्कारं समनुप्राप्य कथाभिर् अभिरञ्जयन्
न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0