भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.020

1.020.001

तच् छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्
समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम्

1.020.002

पूर्वम् अर्थं प्रतिश्रुत्य प्रतिज्ञां हातुम् इच्छसि
रागवाणाम् अयुक्तो ऽयं कुलस्यास्य विपर्ययः

1.020.003

यद् इदं ते क्षमं राजन् गमिष्यामि यथागतम्
मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः

1.020.004

तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः
चचाल वसुधा कृत्स्ना विवेश च भयं सुरान्

1.020.005

त्रस्तरूपं तु विज्ञाय जगत् सर्वं महान् ऋषिः
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यम् अब्रवीत्

1.020.006

इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः
धृतिमान्सुव्रतः श्रीमान् न धर्मं हातुम् अर्हसि

1.020.007

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुम् अर्हसि

1.020.008

संश्रुत्यैवं करिष्यामीत्य् अकुर्वाणस्य राघव
इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय

1.020.009

कृतास्त्रम् अकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा

1.020.010

एष विग्रहवान् धर्म एष वीर्यवतां वरः
एष बुद्ध्याधिको लोके तपसश् च परायणम्

1.020.011

एषो ऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे
नैनम् अन्यः पुमान् वेत्ति न च वेत्स्यन्ति के चन

1.020.012

न देवा नर्षयः के चिन् नासुरा न च राक्षसाः
गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः

1.020.013

सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति

1.020.014

ते ऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः
नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः

1.020.015

जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे
ते सुवाते ऽस्त्रशस्त्राणि शतं परम भास्वरम्

1.020.016

पञ्चाशतं सुतांल् लेभे जया नाम वरान् पुरा
वधायासुरसैन्यानाम् अमेयान् कामरूपिणः

1.020.017

सुप्रभाजनयच् चापि पुत्रान् पञ्चाशतं पुनः
संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः

1.020.018

तानि चास्त्राणि वेत्त्य् एष यथावत् कुशिकात्मजः
अपूर्वाणां च जनने शक्तो भूयश् च धर्मवित्

1.020.019

एवं वीर्यो महातेजा विश्वामित्रो महातपाः
न रामगमने राजन् संशयं गन्तुम् अर्हसि

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc