रामायण (दक्षिणी पाठ) · अध्याय 2.97
रामायण, अयोध्याकाण्ड, 97
तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम् ।
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे
किम् एतद् इच्छेयम् अहं श्रोतुं प्रव्याहृतं त्वया ।
यस्मात् त्वम् आगतो देशम् इमं चीरजटाजिनी
यन्निमित्तम् इमं देशं कृष्णाजिनजटाधरः ।
हित्वा राज्यं प्रविष्टस् त्वं तत् सर्वं वक्तुम् अर्हसि
इत्य् उक्तः केकयीपुत्रः काकुत्स्थेन महात्मना ।
प्रगृह्य बलवद् भूयः प्राञ्जलिर् वाक्यम् अब्रवीत्
आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् ।
गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप ।
चकार सुमहत् पापम् इदम् आत्मयशोहरम्
सा राज्यफलम् अप्राप्य विधवा शोककर्शिता ।
पतिष्यति महाघोरे निरये जननी मम
तस्य मे दासभूतस्य प्रसादं कर्तुम् अर्हसि ।
अभिषिञ्चस्व चाद्यैव राज्येन मघवान् इव
इमाः प्रकृतयः सर्वा विधवा मातरश् च याः ।
त्वत्सकाशम् अनुप्राप्ताः प्रसादं कर्तुम् अर्हसि
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।
राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु
भवत्व् अविधवा भूमिः समग्रा पतिना त्वया ।
शशिना विमलेनेव शारदी रजनी यथा
एभिश् च सचिवैः सार्धं शिरसा याचितो मया ।
भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुम् अर्हसि
तद् इदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम् ।
पूजितं पुरुषव्याघ्र नातिक्रमितुम् उत्सहे
एवम् उक्त्वा महाबाहुः सबाष्पः केकयीसुतः ।
रामस्य शिरसा पादौ जग्राह भरतः पुनः
तं मत्तम् इव मातंगं निःश्वसन्तं पुनः पुनः ।
भ्रातरं भरतं रामः परिष्वज्येदम् अब्रवीत्
कुलीनः सत्त्वसम्पन्नस् तेजस्वी चरितव्रतः ।
राज्यहेतोः कथं पापम् आचरेत् त्वद्विधो जनः
न दोषं त्वयि पश्यामि सूक्ष्मम् अप्य् अरिसूदन ।
न चापि जननीं बाल्यात् त्वं विगर्हितुम् अर्हसि
यावत् पितरि धर्मज्ञ गौरवं लोकसत्कृते ।
तावद् धर्मभृतां श्रेष्ठ जनन्याम् अपि गौरवम्
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।
मातापितृभ्याम् उक्तो ऽहं कथम् अन्यत् समाचरे
त्वया राज्यम् अयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।
वस्तव्यं दण्डकारण्ये मया वल्कलवाससा
एवं कृत्वा महाराजो विभागं लोकसंनिधौ ।
व्यादिश्य च महातेजा दिवं दशरथो गतः
स च प्रमाणं धर्मात्मा राजा लोकगुरुस् तव ।
पित्रा दत्तं यथाभागम् उपभोक्तुं त्वम् अर्हसि
चतुर्दश समाः सौम्य दण्डकारण्यम् आश्रितः ।
उपभोक्ष्ये त्व् अहं दत्तं भागं पित्रा महात्मना
यद् अब्रवीन् मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः ।
तद् एव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावम् अव्ययम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0