रामायण (दक्षिणी पाठ) · अध्याय 2.98
रामायण, अयोध्याकाण्ड, 98
ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः ।
शोचताम् एव रजनी दुःखेन व्यत्यवर्तत
रजन्यां सुप्रभातायां भ्रातरस् ते सुहृद्वृताः ।
मन्दाकिन्यां हुतं जप्यं कृत्वा रामम् उपागमन्
तूष्णीं ते समुपासीना न कश्चित् किंचिद् अब्रवीत् ।
भरतस् तु सुहृन्मध्ये रामं वचनम् अब्रवीत्
सान्त्विता मामिका माता दत्तं राज्यम् इदं मम ।
तद् ददामि तवैवाहं भुङ्क्ष्व राज्यम् अकण्टकम्
महतेवाम्बुवेगेन भिन्नः सेतुर् जलागमे ।
दुरावारं त्वदन्येन राज्यखण्डम् इदं महत्
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः ।
अनुगन्तुं न शक्तिर् मे गतिं तव महीपते
सुजीवं नित्यशस् तस्य यः परैर् उपजीव्यते ।
राम तेन तु दुर्जीवं यः परान् उपजीवति
यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः ।
ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः
स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।
स तां नानुभवेत् प्रीतिं यस्य हेतोः प्रभावितः
एषोपमा महाबाहो त्वम् अर्थं वेत्तुम् अर्हसि ।
यदि त्वम् अस्मान् ऋषभो भर्ता भृत्यान् न शाधि हि
श्रेणयस् त्वां महाराज पश्यन्त्व् अग्र्याश् च सर्वशः ।
प्रतपन्तम् इवादित्यं राज्ये स्थितम् अरिंदमम्
तवानुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः ।
अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः
तस्य साध्व् इत्य् अमन्यन्त नागरा विविधा जनाः ।
भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः
तम् एवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् ।
रामः कृतात्मा भरतं समाश्वासयद् आत्मवान्
नात्मनः कामकारो ऽस्ति पुरुषो ऽयम् अनीश्वरः ।
इतश् चेतरतश् चैनं कृतान्तः परिकर्षति
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्
यथा फलानां पक्वानां नान्यत्र पतनाद् भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद् भयम्
यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति ।
तथावसीदन्ति नरा जरामृत्युवशं गताः
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनाम् इह ।
आयूंषि क्षपयन्त्य् आशु ग्रीष्मे जलम् इवांशवः
आत्मानम् अनुशोच त्वं किम् अन्यम् अनुशोचसि ।
आयुस् ते हीयते यस्य स्थितस्य च गतस्य च
सहैव मृत्युर् व्रजति सह मृत्युर् निषीदति ।
गत्वा सुदीर्घम् अध्वानं सह मृत्युर् निवर्तते
गात्रेषु वलयः प्राप्ताः श्वेताश् चैव शिरोरुहाः ।
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्
नन्दन्त्य् उदित आदित्ये नन्दन्त्य् अस्तम् इते रवौ ।
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम्
हृष्यन्त्य् ऋतुमुखं दृष्ट्वा नवं नवम् इहागतम् ।
ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः
यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
समेत्य च व्यपेयातां कालम् आसाद्य कंचन
एवं भार्याश् च पुत्राश् च ज्ञातयश् च वसूनि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्य् एषां विनाभवः
नात्र कश्चिद् यथा भावं प्राणी समभिवर्तते ।
तेन तस्मिन् न सामर्थ्यं प्रेतस्यास्त्य् अनुशोचतः
यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः ।
अहम् अप्य् आगमिष्यामि पृष्ठतो भवताम् इति
एवं पूर्वैर् गतो मार्गः पितृपैतामहो ध्रुवः ।
तम् आपन्नः कथं शोचेद् यस्य नास्ति व्यतिक्रमः
वयसः पतमानस्य स्रोतसो वानिवर्तिनः ।
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः
धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश् चाप्तदक्षिणैः ।
धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ।
अर्थादानाच् च धार्मेण पिता नस् त्रिदिवं गतः
इष्ट्वा बहुविधैर् यज्ञैर् भोगांश् चावाप्य पुष्कलान् ।
उत्तमं चायुर् आसाद्य स्वर् गतः पृथिवीपतिः
स जीर्णं मानुषं देहं परित्यज्य पिता हि नः ।
दैवीम् ऋद्धिम् अनुप्राप्तो ब्रह्मलोकविहारिणीम्
तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुम् अर्हति ।
त्वद्विधो यद्विधश् चापि श्रुतवान् बुद्धिमत्तरः
एते बहुविधाः शोका विलापरुदिते तथा ।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता
स स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम् ।
तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर
यत्राहम् अपि तेनैव नियुक्तः पुण्यकर्मणा ।
तत्रैवाहं करिष्यामि पितुर् आर्यस्य शासनम्
न मया शासनं तस्य त्यक्तुं न्याय्यम् अरिंदम ।
तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता
एवम् उक्त्वा तु विरते रामे वचनम् अर्थवत् ।
उवाच भरतश् चित्रं धार्मिको धार्मिकं वचः
को हि स्याद् ईदृशो लोके यादृशस् त्वम् अरिंदम ।
न त्वां प्रव्यथयेद् दुःखं प्रीतिर् वा न प्रहर्षयेत्
संमतश् चासि वृद्धानां तांश् च पृच्छसि संशयान् ।
यथा मृतस् तथा जीवन् यथासति तथा सति
यस्यैष बुद्धिलाभः स्यात् परितप्येत केन सः ।
स एवं व्यसनं प्राप्य न विषीदितुम् अर्हति
अमरोपमसत्त्वस् त्वं महात्मा सत्यसंगरः ।
सर्वज्ञः सर्वदर्शी च बुद्धिमांश् चासि राघव
न त्वाम् एवं गुणैर् युक्तं प्रभवाभवकोविदम् ।
अविषह्यतमं दुःखम् आसादयितुम् अर्हति
प्रोषिते मयि यत् पापं मात्रा मत्कारणात् कृतम् ।
क्षुद्रया तद् अनिष्टं मे प्रसीदतु भवान् मम
धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् ।
हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम्
कथं दशरथाज् जातः शुद्धाभिजनकर्मणः ।
जानन् धर्मम् अधर्मिष्ठं कुर्यां कर्म जुगुप्सितम्
गुरुः क्रियावान् वृद्धश् च राजा प्रेतः पितेति च ।
तातं न परिगर्हेयं दैवतं चेति संसदि
को हि धर्मार्थयोर् हीनम् ईदृशं कर्म किल्बिषम् ।
स्त्रियाः प्रियचिकीर्षुः सन् कुर्याद् धर्मज्ञ धर्मवित्
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ।
राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता
साध्वर्थम् अभिसंधाय क्रोधान् मोहाच् च साहसात् ।
तातस्य यद् अतिक्रान्तं प्रत्याहरतु तद् भवान्
पितुर् हि समतिक्रान्तं पुत्रो यः साधु मन्यते ।
तद् अपत्यं मतं लोके विपरीतम् अतो ऽन्यथा
तद् अपत्यं भवान् अस्तु मा भवान् दुष्कृतं पितुः ।
अभिपत्ता कृतं कर्म लोके धीरविगर्हितम्
कैकेयीं मां च तातं च सुहृदो बान्धवांश् च नः ।
पौरजानपदान् सर्वांस् त्रातु सर्वम् इदं भवान्
क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् ।
ईदृशं व्याहतं कर्म न भवान् कर्तुम् अर्हति
अथ क्लेशजम् एव त्वं धर्मं चरितुम् इच्छसि ।
धर्मेण चतुरो वर्णान् पालयन् क्लेशम् आप्नुहि
चतुर्णाम् आश्रमाणां हि गार्हस्थ्यं श्रेष्ठम् आश्रमम् ।
आहुर् धर्मज्ञ धर्मज्ञास् तं कथं त्यक्तुम् अर्हसि
श्रुतेन बालः स्थानेन जन्मना भवतो ह्य् अहम् ।
स कथं पालयिष्यामि भूमिं भवति तिष्ठति
हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्य् अहम् ।
भवता च विना भूतो न वर्तयितुम् उत्सहे
इदं निखिलम् अव्यग्रं पित्र्यं राज्यम् अकण्टकम् ।
अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः
इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः ।
ऋत्विजः सवसिष्ठाश् च मन्त्रवन् मन्त्रकोविदाः
अभिषिक्तस् त्वम् अस्माभिर् अयोध्यां पालने व्रज ।
विजित्य तरसा लोकान् मरुद्भिर् इव वासवः
ऋणानि त्रीण्य् अपाकुर्वन् दुर्हृदः साधु निर्दहन् ।
सुहृदस् तर्पयन् कामैस् त्वम् एवात्रानुशाधि माम्
अद्यार्य मुदिताः सन्तु सुहृदस् ते ऽभिषेचने ।
अद्य भीताः पालयन्तां दुर्हृदस् ते दिशो दश
आक्रोशं मम मातुश् च प्रमृज्य पुरुषर्षभ ।
अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात्
शिरसा त्वाभियाचे ऽहं कुरुष्व करुणां मयि ।
बान्धवेषु च सर्वेषु भूतेष्व् इव महेश्वरः
अथ वा पृष्ठतः कृत्वा वनम् एव भवान् इतः ।
गमिष्यति गमिष्यामि भवता सार्धम् अप्य् अहम्
तथापि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः ।
न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस् तद्वचने प्रतिष्ठितः
तद् अद्भुतं स्थैर्यम् अवेक्ष्य राघवे समं जनो हर्षम् अवाप दुःखितः ।
न यात्य् अयोध्याम् इति दुःखितो ऽभवत् स्थिरप्रतिज्ञत्वम् अवेक्ष्य हर्षितः
तम् ऋत्विजो नैगमयूथवल्लभास् तथा विसंज्ञाश्रुकलाश् च मातरः ।
तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0