रामायण (दक्षिणी पाठ) · अध्याय 2.95
रामायण, अयोध्याकाण्ड, 95
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह ।
किं मे धर्माद् विहीनस्य राजधर्मः करिष्यति
शाश्वतो ऽयं सदा धर्मः स्थितो ऽस्मासु नरर्षभ ।
ज्येष्ठपुत्रे स्थिते राजन् न कनीयान् भवेन् नृपः
स समृद्धां मया सार्धम् अयोध्यां गच्छ राघव ।
अभिषेचय चात्मानं कुलस्यास्य भवाय नः
राजानं मानुषं प्राहुर् देवत्वे संमतो मम ।
यस्य धर्मार्थसहितं वृत्तम् आहुर् अमानुषम्
केकयस्थे च मयि तु त्वयि चारण्यम् आश्रिते ।
दिवम् आर्य गतो राजा यायजूकः सतां मतः
उत्तिष्ठ पुरुषव्याघ्र क्रियताम् उदकं पितुः ।
अहं चायं च शत्रुघ्नः पूर्वम् एव कृतोदकौ
प्रियेण किल दत्तं हि पितृलोकेषु राघव ।
अक्षय्यं भवतीत्य् आहुर् भवांश् चैव पितुः प्रियः
तां श्रुत्वा करुणां वाचं पितुर् मरणसंहिताम् ।
राघवो भरतेनोक्तां बभूव गतचेतनः
वाग्वज्रं भरतेनोक्तम् अमनोज्ञं परंतपः ।
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः ।
वने परशुना कृत्तस् तथा भुवि पपात ह ॥ रम्स्_2,95.9* ॥
तथा हि पतितं रामं जगत्यां जगतीपतिम् ।
कूलघातपरिश्रान्तं प्रसुप्तम् इव कुञ्जरम्
भ्रातरस् ते महेष्वासं सर्वतः शोककर्शितम् ।
रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै
स तु संज्ञां पुनर् लब्ध्वा नेत्राभ्याम् आस्रम् उत्सृजन् ।
उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम्
किं नु तस्य मया कार्यं दुर्जातेन महात्मनः ।
यो मृतो मम शोकेन न मया चापि संस्कृतः
अहो भरत सिद्धार्थो येन राजा त्वयानघ ।
शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः
निष्प्रधानाम् अनेकाग्रां नरेन्द्रेण विनाकृताम् ।
निवृत्तवनवासो ऽपि नायोध्यां गन्तुम् उत्सहे
समाप्तवनवासं माम् अयोध्यायां परंतप ।
को नु शासिष्यति पुनस् ताते लोकान्तरं गते
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्य् आह सान्त्वयन् ।
वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्य् अहम्
एवम् उक्त्वा स भरतं भार्याम् अभ्येत्य राघवः ।
उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम्
सीते मृतस् ते श्वशुरः पित्रा हीनो ऽसि लक्ष्मण ।
भरतो दुःखम् आचष्टे स्वर्गतं पृथिवीपतिम्
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः
आनयेङ्गुदीपिण्याकं चीरम् आहर चोत्तरम् ।
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः
सीता पुरस्ताद् व्रजतु त्वम् एनाम् अभितो व्रज ।
अहं पश्चाद् गमिष्यामि गतिर् ह्य् एषा सुदारुणा
ततो नित्यानुगस् तेषां विदितात्मा महामतिः ।
मृदुर् दान्तश् च शान्तश् च रामे च दृढभक्तिमान्
सुमन्त्रस् तैर् नृपसुतैः सार्धम् आश्वास्य राघवम् ।
अवातारयद् आलम्ब्य नदीं मन्दाकिनीं शिवाम्
ते सुतीर्थां ततः कृच्छ्राद् उपागम्य यशस्विनः ।
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम्
शीघ्रस्रोतसम् आसाद्य तीर्थं शिवम् अकर्दमम् ।
सिषिचुस् तूदकं राज्ञे तत एतद् भवत्व् इति
प्रगृह्य च महीपालो जलपूरितम् अञ्जलिम् ।
दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत्
एतत् ते राजशार्दूल विमलं तोयम् अक्षयम् ।
पितृलोकगतस्याद्य मद्दत्तम् उपतिष्ठतु
ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य स राघवः ।
पितुश् चकार तेजस्वी निवापं भ्रातृभिः सह
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।
न्यस्य रामः सुदुःखार्तो रुदन् वचनम् अब्रवीत्
इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।
यदन्नः पुरुषो भवति तदन्नास् तस्य देवताः
ततस् तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् ।
आरुरोह नरव्याघ्रो रम्यसानुं महीधरम्
ततः पर्णकुटीद्वारम् आसाद्य जगतीपतिः ।
परिजग्राह पाणिभ्याम् उभौ भरतलक्ष्मणौ
तेषां तु रुदतां शब्दात् प्रतिश्रुत्काभवद् गिरौ ।
भ्रात्ःणां सह वैदेह्या सिंहानां नर्दताम् इव
विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः ।
अब्रुवंश् चापि रामेण भरतः संगतो ध्रुवम् ।
तेषाम् एव महाञ् शब्दः शोचतां पितरं मृतम् ॥ रम्स्_2,95.35* ॥
अथ वासान् परित्यज्य तं सर्वे ऽभिमुखाः स्वनम् ।
अप्य् एकमनसो जग्मुर् यथास्थानं प्रधाविताः
हयैर् अन्ये गजैर् अन्ये रथैर् अन्ये स्वलंकृतैः ।
सुकुमारास् तथैवान्ये पद्भिर् एव नरा ययुः
अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।
द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम्
भ्रात्ःणां त्वरितास् ते तु द्रष्टुकामाः समागमम् ।
ययुर् बहुविधैर् यानैः खुरनेमिसमाकुलैः
सा भूमिर् बहुभिर् यानैः खुरनेमिसमाहता ।
मुमोच तुमुलं शब्दं द्यौर् इवाभ्रसमागमे
तेन वित्रासिता नागाः करेणुपरिवारिताः ।
आवासयन्तो गन्धेन जग्मुर् अन्यद् वनं ततः
वराहमृगसिंहाश् च महिषाः सर्क्षवानराः ।
व्याघ्रगोकर्णगवया वित्रेषुः पृषतैः सह
रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः ।
तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः
तेन शब्देन वित्रस्तैर् आकाशं पक्षिभिर् वृतम् ।
मनुष्यैर् आवृता भूमिर् उभयं प्रबभौ तदा
तान् नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् ।
पर्यष्वजत धर्मज्ञः पितृवन् मातृवच् च सः
स तत्र कांश्चित् परिषस्वजे नरान् नराश् च केचित् तु तम् अभ्यवादयन् ।
चकार सर्वान् सवयस्यबान्धवान् यथार्हम् आसाद्य तदा नृपात्मजः
ततः स तेषां रुदतां महात्मनां भुवं च खं चानुविनादयन् स्वनः ।
गुहा गिरीणां च दिशश् च संततं मृदङ्गघोषप्रतिमो विशुश्रुवे
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0