रामायण (दक्षिणी पाठ) · अध्याय 2.94
रामायण, अयोध्याकाण्ड, 94
आघ्राय रामस् तं मूर्ध्नि परिष्वज्य च राघवः ।
अङ्के भरतम् आरोप्य पर्यपृच्छत् समाहितः
क्व नु ते ऽभूत् पिता तात यद् अरण्यं त्वम् आगतः ।
न हि त्वं जीवतस् तस्य वनम् आगन्तुम् अर्हसि
चिरस्य बत पश्यामि दूराद् भरतम् आगतम् ।
दुष्प्रतीकम् अरण्ये ऽस्मिन् किं तात वनम् आगतः
कच्चिद् दशरथो राजा कुशली सत्यसंगरः ।
राजसूयाश्वमेधानाम् आहर्ता धर्मनिश्चयः
स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः ।
इक्ष्वाकूणाम् उपाध्यायो यथावत् तात पूज्यते
तात कच्चिच् च कौसल्या सुमित्रा च प्रजावती ।
सुखिनी कच्चिद् आर्या च देवी नन्दति कैकयी
कच्चिद् विनयसम्पन्नः कुलपुत्रो बहुश्रुतः ।
अनसूयुर् अनुद्रष्टा सत्कृतस् ते पुरोहितः
कच्चिद् अग्निषु ते युक्तो विधिज्ञो मतिमान् ऋजुः ।
हुतं च होष्यमाणं च काले वेदयते सदा
इष्वस्त्रवरसम्पन्नम् अर्थशास्त्रविशारदम् ।
सुधन्वानम् उपाध्यायं कच्चित् त्वं तात मन्यसे
कच्चिद् आत्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः ।
कुलीनाश् चेङ्गितज्ञाश् च कृतास् ते तात मन्त्रिणः
मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।
सुसंवृतो मन्त्रधरैर् अमात्यैः शास्त्रकोविदैः
कच्चिन् निद्रावशं नैषि कच्चित् काले विबुध्यसे ।
कच्चिच् चापररात्रिषु चिन्तयस्य् अर्थनैपुणम्
कच्चिन् मन्त्रयसे नैकः कच्चिन् न बहुभिः सह ।
कच्चित् ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति
कच्चिद् अर्थं विनिश्चित्य लघुमूलं महोदयम् ।
क्षिप्रम् आरभसे कर्तुं न दीर्घयसि राघव
कच्चित् तु सुकृतान्य् एव कृतरूपाणि वा पुनः ।
विदुस् ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः
कच्चिन् न तर्कैर् युक्त्वा वा ये चाप्य् अपरिकीर्तिताः ।
त्वया वा तव वामात्यैर् बुध्यते तात मन्त्रितम्
कच्चित् सहस्रान् मूर्खाणाम् एकम् इच्छसि पण्डितम् ।
पण्डितो ह्य् अर्थकृच्छ्रेषु कुर्यान् निःश्रेयसं महत्
सहस्राण्य् अपि मूर्खाणां यद्य् उपास्ते महीपतिः ।
अथ वाप्य् अयुतान्य् एव नास्ति तेषु सहायता
एको ऽप्य् अमात्यो मेधावी शूरो दक्षो विचक्षणः ।
राजानं राजमात्रं वा प्रापयेन् महतीं श्रियम्
कच्चिन् मुख्या महत्स्व् एव मध्यमेषु च मध्यमाः ।
जघन्याश् च जघन्येषु भृत्याः कर्मसु योजिताः
अमात्यान् उपधातीतान् पितृपैतामहाञ् शुचीन् ।
श्रेष्ठाञ् श्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु
कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानम् इव स्त्रियः
उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ।
शूरम् ऐश्वर्यकामं च यो न हन्ति स वध्यते
कच्चिद् धृष्टश् च शूरश् च धृतिमान् मतिमाञ् शुचिः ।
कुलीनश् चानुरक्तश् च दक्षः सेनापतिः कृतः
बलवन्तश् च कच्चित् ते मुख्या युद्धविशारदाः ।
दृष्टापदाना विक्रान्तास् त्वया सत्कृत्य मानिताः
कच्चिद् बलस्य भक्तं च वेतनं च यथोचितम् ।
सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे
कालातिक्रमणे ह्य् एव भक्तवेतनयोर् भृताः ।
भर्तुः कुप्यन्ति दुष्यन्ति सो ऽनर्थः सुमहान् स्मृतः
कच्चित् सर्वे ऽनुरक्तास् त्वां कुलपुत्राः प्रधानतः ।
कच्चित् प्राणांस् तवार्थेषु संत्यजन्ति समाहिताः
कच्चिज् जानपदो विद्वान् दक्षिणः प्रतिभानवान् ।
यथोक्तवादी दूतस् ते कृतो भरत पण्डितः
कच्चिद् अष्टादशान्य् एषु स्वपक्षे दश पञ्च च ।
त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः
कच्चिद् व्यपास्तान् अहितान् प्रतियातांश् च सर्वदा ।
दुर्बलान् अनवज्ञाय वर्तसे रिपुसूदन
कच्चिन् न लोकायतिकान् ब्राह्मणांस् तात सेवसे ।
अनर्थकुशला ह्य् एते बालाः पण्डितमानिनः
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः ।
बुद्धिमान् वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते
वीरैर् अध्युषितां पूर्वम् अस्माकं तात पूर्वकैः ।
सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम्
ब्राह्मणैः क्षत्रियैर् वैश्यैः स्वकर्मनिरतैः सदा ।
जितेन्द्रियैर् महोत्साहैर् वृताम् आर्यैः सहस्रशः
प्रासादैर् विविधाकारैर् वृतां वैद्यजनाकुलाम् ।
कच्चित् समुदितां स्फीताम् अयोध्यां परिरक्षसि
कच्चिच् चैत्यशतैर् जुष्टः सुनिविष्टजनाकुलः ।
देवस्थानैः प्रपाभिश् च तडागैश् चोपशोभितः
प्रहृष्टनरनारीकः समाजोत्सवशोभितः ।
सुकृष्टसीमा पशुमान् हिंसाभिर् परिवर्जितः
अदेवमातृको रम्यः श्वापदैः परिवर्जितः ।
कच्चिज् जनपदः स्फीतः सुखं वसति राघव
कच्चित् ते दयिताः सर्वे कृषिगोरक्षजीविनः ।
वार्त्तायां संश्रितस् तात लोको हि सुखम् एधते
तेषां गुप्तिपरीहारैः कच्चित् ते भरणं कृतम् ।
रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः
कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताश् च सुरक्षिताः ।
कच्चिन् न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे
कच्चिन् नागवनं गुप्तं कुञ्जराणां च तृप्यसि ।
कच्चिद् दर्शयसे नित्यं मनुष्याणां विभूषितम् ।
उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे ॥ रम्स्_2,94.43* ॥
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः ।
यन्त्रैश् च परिपूर्णानि तथा शिल्पिधनुर्धरैः
आयस् ते विपुलः कच्चित् कच्चिद् अल्पतरो व्ययः ।
अपात्रेषु न ते कच्चित् कोशो गच्छति राघव
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।
योधेषु मित्रवर्गेषु कच्चिद् गच्छति ते व्ययः
कच्चिद् आर्यो विशुद्धात्माक्षारितश् चोरकर्मणा ।
अपृष्टः शास्त्रकुशलैर् न लोभाद् बध्यते शुचिः
गृहीतश् चैव पृष्टश् च काले दृष्टः सकारणः ।
कच्चिन् न मुच्यते चोरो धनलोभान् नरर्षभ
व्यसने कच्चिद् आढ्यस्य दुर्गतस्य च राघव ।
अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः
यानि मिथ्याभिशस्तानां पतन्त्य् अस्राणि राघव ।
तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थम् अनुशासतः
कच्चिद् वृद्धांश् च बालांश् च वैद्यमुख्यांश् च राघव ।
दानेन मनसा वाचा त्रिभिर् एतैर् बुभूषसे
कच्चिद् गुरूंश् च वृद्धांश् च तापसान् देवतातिथीन् ।
चैत्यांश् च सर्वान् सिद्धार्थान् ब्राह्मणांश् च नमस्यसि
कच्चिद् अर्थेन वा धर्मं धर्मं धर्मेण वा पुनः ।
उभौ वा प्रीतिलोभेन कामेन न विबाधसे
कच्चिद् अर्थं च धर्मं च कामं च जयतां वर ।
विभज्य काले कालज्ञ सर्वान् भरत सेवसे
कच्चित् ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः ।
आशंसन्ते महाप्राज्ञ पौरजानपदैः सह
नास्तिक्यम् अनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।
अदर्शनं ज्ञानवताम् आलस्यं पञ्चवृत्तिताम्
एकचिन्तनम् अर्थानाम् अनर्थज्ञैश् च मन्त्रणम् ।
निश्चितानाम् अनारम्भं मन्त्रस्यापरिरक्षणम्
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः ।
कच्चित् त्वं वर्जयस्य् एतान् राजदोषांश् चतुर्दश
कच्चित् स्वादुकृतं भोज्यम् एको नाश्नासि राघव ।
कच्चिद् आशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0