भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.93

2.93.1

रामायण, अयोध्याकाण्ड, 93
निविष्टायां तु सेनायाम् उत्सुको भरतस् तदा ।
जगाम भ्रातरं द्रष्टुं शत्रुघ्नम् अनुदर्शयन्

2.93.2

ऋषिं वसिष्ठं संदिश्य मात्ःन् मे शीघ्रम् आनय ।
इति त्वरितम् अग्रे स जगाम गुरुवत्सलः

2.93.3

सुमन्त्रस् त्व् अपि शत्रुघ्नम् अदूराद् अन्वपद्यत ।
रामदर्शनजस् तर्षो भरतस्येव तस्य च

2.93.4

गच्छन्न् एवाथ भरतस् तापसालयसंस्थिताम् ।
भ्रातुः पर्णकुटीं श्रीमान् उटजं च ददर्श ह

2.93.5

शालायास् त्व् अग्रतस् तस्या ददर्श भरतस् तदा ।
काष्ठानि चावभग्नानि पुष्पाण्य् अवचितानि च

2.93.6

ददर्श च वने तस्मिन् महतः संचयान् कृतान् ।
मृगाणां महिषाणां च करीषैः शीतकारणात्

2.93.7

गच्छन् एव महाबाहुर् द्युतिमान् भरतस् तदा ।
शत्रुघ्नं चाब्रवीद् धृष्टस् तान् अमात्यांश् च सर्वशः

2.93.8

मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यम् अब्रवीत् ।
नातिदूरे हि मन्ये ऽहं नदीं मन्दाकिनीम् इतः

2.93.9

उच्चैर् बद्धानि चीराणि लक्ष्मणेन भवेद् अयम् ।
अभिज्ञानकृतः पन्था विकाले गन्तुम् इच्छता

2.93.10

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् ।
शैलपार्श्वे परिक्रान्तम् अन्योन्यम् अभिगर्जताम्

2.93.11

यम् एवाधातुम् इच्छन्ति तापसाः सततं वने ।
तस्यासौ दृश्यते धूमः संकुलः कृष्णवर्त्मनः

2.93.12

अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् ।
आर्यं द्रक्ष्यामि संहृष्टो महर्षिम् इव राघवम्

2.93.13

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः ।
मन्दाकिनीम् अनुप्राप्तस् तं जनं चेदम् अब्रवीत्

2.93.14

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः ।
जनेन्द्रो निर्जनं प्राप्य धिन् मे जन्म सजीवितम्

2.93.15

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः ।
सर्वान् कामान् परित्यज्य वने वसति राघवः

2.93.16

इति लोकसमाक्रुष्टः पादेष्व् अद्य प्रसादयन् ।
रामस्य निपतिष्यामि सीतायाश् च पुनः पुनः

2.93.17

एवं स विलपंस् तस्मिन् वने दशरथात्मजः ।
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम्

2.93.18

सालतालाश्वकर्णानां पर्णैर् बहुभिर् आवृताम् ।
विशालां मृदुभिस् तीर्णां कुशैर् वेदिम् इवाध्वरे

2.93.19

शक्रायुधनिकाशैश् च कार्मुकैर् भारसाधनैः ।
रुक्मपृष्ठैर् महासारैः शोभितां शत्रुबाधकैः

2.93.20

अर्करश्मिप्रतीकाशैर् घोरैस् तूणीगतैः शरैः ।
शोभितां दीप्तवदनैः सर्पैर् भोगवतीम् इव

2.93.21

महारजतवासोभ्याम् असिभ्यां च विराजिताम् ।
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम्

2.93.22

गोधाङ्गुलित्रैर् आसक्तैश् चित्रैः काञ्चनभूषितैः ।
अरिसंघैर् अनाधृष्यां मृगैः सिंहगुहाम् इव

2.93.23

प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् ।
ददर्श भरतस् तत्र पुण्यां रामनिवेशने

2.93.24

निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् ।
उटजे रामम् आसीनं जटामण्डलधारिणम्

2.93.25

तं तु कृष्णाजिनधरं चीरवल्कलवाससम् ।
ददर्श रामम् आसीनम् अभितः पावकोपमम्

2.93.26

सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् ।
पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम्

2.93.27

उपविष्टं महाबाहुं ब्रह्माणम् इव शाश्वतम् ।
स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च

2.93.28

तं दृष्ट्वा भरतः श्रीमान् दुःखमोहपरिप्लुतः ।
अभ्यधावत धर्मात्मा भरतः कैकयीसुतः

2.93.29

दृष्ट्वा च विललापार्तो बाष्पसंदिग्धया गिरा ।
अशक्नुवन् धारयितुं धैर्याद् वचनम् अब्रवीत्

2.93.30

यः संसदि प्रकृतिभिर् भवेद् युक्त उपासितुम् ।
वन्यैर् मृगैर् उपासीनः सो ऽयम् आस्ते ममाग्रजः

2.93.31

वासोभिर् बहुसाहस्रैर् यो महात्मा पुरोचितः ।
मृगाजिने सो ऽयम् इह प्रवस्ते धर्मम् आचरन्

2.93.32

अधारयद् यो विविधाश् चित्राः सुमनसस् तदा ।
सो ऽयं जटाभारम् इमं सहते राघवः कथम्

2.93.33

यस्य यज्ञैर् यथादिष्टैर् युक्तो धर्मस्य संचयः ।
शरीरक्लेशसम्भूतं स धर्मं परिमार्गते

2.93.34

चन्दनेन महार्हेण यस्याङ्गम् उपसेवितम् ।
मलेन तस्याङ्गम् इदं कथम् आर्यस्य सेव्यते

2.93.35

मन्निमित्तम् इदं दुःखं प्राप्तो रामः सुखोचितः ।
धिग् जीवितं नृशंसस्य मम लोकविगर्हितम्

2.93.36

इत्य् एवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः ।
पादाव् अप्राप्य रामस्य पपात भरतो रुदन्

2.93.37

दुःखाभितप्तो भरतो राजपुत्रो महाबलः ।
उक्त्वार्येति सकृद् दीनं पुनर् नोवाच किंचन

2.93.38

बाष्पापिहितकण्ठश् च प्रेक्ष्य रामं यशस्विनम् ।
आर्येत्य् एवाभिसंक्रुश्य व्याहर्तुं नाशकत् ततः

2.93.39

शत्रुघ्नश् चापि रामस्य ववन्दे चरणौ रुदन् ।
ताव् उभौ स समालिङ्ग्य रामो ऽप्य् अश्रूण्य् अवर्तयत्

2.93.40

ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुताव् अरण्ये ।
दिवाकरश् चैव निशाकरश् च यथाम्बरे शुक्रबृहस्पतिभ्याम्

2.93.41

तान् पार्थिवान् वारणयूथपाभान् समागतांस् तत्र महत्य् अरण्ये ।
वनौकसस् ते ऽपि समीक्ष्य सर्वे ऽप्य् अश्रूण्य् अमुञ्चन् प्रविहाय हर्षम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc