भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.92

2.92.1

रामायण, अयोध्याकाण्ड, 92
निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः ।
अभिगन्तुं स काकुत्स्थम् इयेष गुरुवर्तकम्

2.92.2

निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् ।
भरतो भ्रातरं वाक्यं शत्रुघ्नम् इदम् अब्रवीत्

2.92.3

क्षिप्रं वनम् इदं सौम्य नरसंघैः समन्ततः ।
लुब्धैश् च सहितैर् एभिस् त्वम् अन्वेषितुम् अर्हसि

2.92.4

यावन् न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् ।
वैदेहीं वा महाभागां न मे शान्तिर् भविष्यति

2.92.5

यावन् न चन्द्रसंकाशं द्रक्ष्यामि शुभम् आननम् ।
भ्रातुः पद्मपलाशाक्षं न मे शान्तिर् भविष्यति

2.92.6

यावन् न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ ।
शिरसा धारयिष्यामि न मे शान्तिर् भविष्यति

2.92.7

यावन् न राज्ये राज्यार्हः पितृपैतामहे स्थितः ।
अभिषेकजलक्लिन्नो न मे शान्तिर् भविष्यति

2.92.8

कृतकृत्या महाभागा वैदेही जनकात्मजा ।
भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति

2.92.9

सुभगश् चित्रकूटो ऽसौ गिरिराजोपमो गिरिः ।
यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने

2.92.10

कृतकार्यम् इदं दुर्गं वनं व्यालनिषेवितम् ।
यद् अध्यास्ते महातेजा रामः शस्त्रभृतां वरः

2.92.11

एवम् उक्त्वा महातेजा भरतः पुरुषर्षभः ।
पद्भ्याम् एव महातेजाः प्रविवेश महद् वनम्

2.92.12

स तानि द्रुमजालानि जातानि गिरिसानुषु ।
पुष्पिताग्राणि मध्येन जगाम वदतां वरः

2.92.13

स गिरेश् चित्रकूटस्य सालम् आसाद्य पुष्पितम् ।
रामाश्रमगतस्याग्नेर् ददर्श ध्वजम् उच्छ्रितम्

2.92.14

तं दृष्ट्वा भरतः श्रीमान् मुमोद सहबान्धवः ।
अत्र राम इति ज्ञात्वा गतः पारम् इवाम्भसः

2.92.15

स चित्रकूटे तु गिरौ निशाम्य रामाश्रमं पुण्यजनोपपन्नम् ।
गुहेन सार्धं त्वरितो जगाम पुनर् निवेश्यैव चमूं महात्मा

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc