रामायण (दक्षिणी पाठ) · अध्याय 2.91
रामायण, अयोध्याकाण्ड, 91
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् ।
रामस् तु परिसान्त्व्याथ वचनं चेदम् अब्रवीत्
किम् अत्र धनुषा कार्यम् असिना वा सचर्मणा ।
महेष्वासे महाप्राज्ञे भरते स्वयम् आगते
प्राप्तकालं यद् एषो ऽस्मान् भरतो द्रष्टुम् इच्छति ।
अस्मासु मनसाप्य् एष नाहितं किंचिद् आचरेत्
विप्रियं कृतपूर्वं ते भरतेन कदा न किम् ।
ईदृशं वा भयं ते ऽद्य भरतं यो ऽत्र शङ्कसे
न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः ।
अहं ह्य् अप्रियम् उक्तः स्यां भरतस्याप्रिये कृते
कथं नु पुत्राः पितरं हन्युः कस्यांचिद् आपदि ।
भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणम् आत्मनः
यदि राज्यस्य हेतोस् त्वम् इमां वाचं प्रभाषसे ।
वक्ष्यामि भरतं दृष्ट्वा राज्यम् अस्मै प्रदीयताम्
उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः ।
राज्यम् अस्मै प्रयच्छेति बाढम् इत्य् एव वक्ष्यति
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः ।
लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया
व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह ।
एष मन्ये महाबाहुर् इहास्मान् द्रष्टुम् आगतः
वनवासम् अनुध्याय गृहाय प्रतिनेष्यति ।
इमां वाप्य् एष वैदेहीम् अत्यन्तसुखसेविनीम्
एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौ ।
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ
स एष सुमहाकायः कम्पते वाहिनीमुखे ।
नागः शत्रुंजयो नाम वृद्धस् तातस्य धीमतः
अवतीर्य तु सालाग्रात् तस्मात् स समितिंजयः ।
लक्ष्मणः प्राञ्जलिर् भूत्वा तस्थौ रामस्य पार्श्वतः
भरतेनाथ संदिष्टा सम्मर्दो न भवेद् इति ।
समन्तात् तस्य शैलस्य सेनावासम् अकल्पयत्
अध्यर्धम् इक्ष्वाकुचमूर् योजनं पर्वतस्य सा ।
पार्श्वे न्यविशद् आवृत्य गजवाजिरथाकुला
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्पम् ।
प्रसादनार्थं रघुनन्दनस्य विरोचते नीतिमता प्रणीता
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0