रामायण (दक्षिणी पाठ) · अध्याय 2.9
रामायण, अयोध्याकाण्ड, 9
एवम् उक्ता तु कैकेयी क्रोधेन ज्वलितानना ।
दीर्घम् उष्णं विनिःश्वस्य मन्थराम् इदम् अब्रवीत्
अद्य रामम् इतः क्षिप्रं वनं प्रस्थापयाम्य् अहम् ।
यौवराज्येन भरतं क्षिप्रम् एवाभिषेचये
इदं त्व् इदानीं संपश्य केनोपायेन मन्थरे ।
भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन
एवम् उक्ता तया देव्या मन्थरा पापदर्शिनी ।
रामार्थम् उपहिंसन्ती कैकेयीम् इदम् अब्रवीत्
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ।
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्
श्रुत्वैवं वचनं तस्या मन्थरायास् तु कैकयी ।
किंचिद् उत्थाय शयनात् स्वास्तीर्णाद् इदम् अब्रवीत्
कथय त्वं ममोपायं केनोपायेन मन्थरे ।
भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन
एवम् उक्ता तया देव्या मन्थरा पापदर्शिनी ।
रामार्थम् उपहिंसन्ती कुब्जा वचनम् अब्रवीत्
तव देवासुरे युद्धे सह राजर्षिभिः पतिः ।
अगच्छत् त्वाम् उपादाय देवराजस्य साह्यकृत्
दिशम् आस्थाय कैकेयि दक्षिणां दण्डकान् प्रति ।
वैजयन्तम् इति ख्यातं पुरं यत्र तिमिध्वजः
स शम्बर इति ख्यातः शतमायो महासुरः ।
ददौ शक्रस्य संग्रामं देवसंघैर् अनिर्जितः
तस्मिन् महति संग्रामे राजा दशरथस् तदा ।
अपवाह्य त्वया देवि संग्रामान् नष्टचेतनः
तत्रापि विक्षतः शस्त्रैः पतिस् ते रक्षितस् त्वया ।
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने
स त्वयोक्तः पतिर् देवि यदेच्छेयं तदा वरौ ।
गृह्णीयाम् इति तत् तेन तथेत्य् उक्तं महात्मना ।
अनभिज्ञा ह्य् अहं देवि त्वयैव कथितं पुरा ॥ रम्स्_2,9.14* ॥
तौ वरौ याच भर्तारं भरतस्याभिषेचनम् ।
प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश
क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते ।
शेष्वान् अन्तर्हितायां त्वं भूमौ मलिनवासिनी ।
मा स्मैनं प्रत्युदीक्षेथा मा चैनम् अभिभाषथाः ॥ रम्स्_2,9.16* ॥
दयिता त्वं सदा भर्तुर् अत्र मे नास्ति संशयः ।
त्वत्कृते च महाराजो विशेद् अपि हुताशनम्
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् ।
तव प्रियार्थं राजा हि प्राणान् अपि परित्यजेत्
न ह्य् अतिक्रमितुं शक्तस् तव वाक्यं महीपतिः ।
मन्दस्वभावे बुध्यस्व सौभाग्यबलम् आत्मनः
मणिमुक्तासुवर्णानि रत्नानि विविधानि च ।
दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः
यौ तौ देवासुरे युद्धे वरौ दशरथो ऽददात् ।
तौ स्मारय महाभागे सो ऽर्थो मा त्वाम् अतिक्रमेत्
यदा तु ते वरं दद्यात् स्वयम् उत्थाप्य राघवः ।
व्यवस्थाप्य महाराजं त्वम् इमं वृणुया वरम्
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।
भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः
एवं प्रव्राजितश् चैव रामो ऽरामो भविष्यति ।
भरतश् च हतामित्रस् तव राजा भविष्यति
येन कालेन रामश् च वनात् प्रत्यागमिष्यति ।
तेन कालेन पुत्रस् ते कृतमूलो भविष्यति ।
संगृहीतमनुष्यश् च सुहृद्भिः सार्धम् आत्मवान् ॥ रम्स्_2,9.25* ॥
प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा ।
रामाभिषेकसंकल्पान् निगृह्य विनिवर्तय
अनर्थम् अर्थरूपेण ग्राहिता सा ततस् तया ।
हृष्टा प्रतीता कैकेयी मन्थराम् इदम् अब्रवीत्
कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् ।
पृथिव्याम् असि कुब्जानाम् उत्तमा बुद्धिनिश्चये
त्वम् एव तु ममार्थेषु नित्ययुक्ता हितैषिणी ।
नाहं समवबुध्येयं कुब्जे राज्ञश् चिकीर्षितम्
सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः ।
त्वं पद्मम् इव वातेन संनता प्रियदर्शना
उरस् ते ऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम् ।
अधस्ताच् चोदरं शान्तं सुनाभम् इव लज्जितम्
जघनं तव निर्घुष्टं रशनादामशोभितम् ।
जङ्घे भृशम् उपन्यस्ते पादौ चाप्य् आयताव् उभौ
त्वम् आयताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि ।
अग्रतो मम गच्छन्ती राजहंसीव राजसे
तवेदं स्थगु यद् दीर्घं रथघोणम् इवायतम् ।
मतयः क्षत्रविद्याश् च मायाश् चात्र वसन्ति ते
अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ।
अभिषिक्ते च भरते राघवे च वनं गते
जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि ।
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु
मुखे च तिलकं चित्रं जातरूपमयं शुभम् ।
कारयिष्यामि ते कुब्जे शुभान्य् आभरणानि च
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ।
चन्द्रम् आह्वयमानेन मुखेनाप्रतिमानना ।
गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् ॥ रम्स्_2,9.38* ॥
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः ।
पादौ परिचरिष्यन्ति यथैव त्वं सदा मम
इति प्रशस्यमाना सा कैकेयीम् इदम् अब्रवीत् ।
शयानां शयने शुभ्रे वेद्याम् अग्निशिखाम् इव
गतोदके सेतुबन्धो न कल्याणि विधीयते ।
उत्तिष्ठ कुरु कल्याणं राजानम् अनुदर्शय
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह ।
क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना ।
अवमुच्य वरार्हाणि शुभान्य् आभरणानि च
ततो हेमोपमा तत्र कुब्जा वाक्यवशं गता ।
संविश्य भूमौ कैकेयी मन्थराम् इदम् अब्रवीत्
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि ।
वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम्
अथैतद् उक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी ।
असंवृताम् आस्तरणेन मेदिनीं तदाधिशिश्ये पतितेव किंनरी
उदीर्णसंरम्भतमोवृतानना तथावमुक्तोत्तममाल्यभूषणा ।
नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौर् इव मग्नतारका
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0