रामायण (दक्षिणी पाठ) · अध्याय 2.10
रामायण, अयोध्याकाण्ड, 10
आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ।
प्रियार्हां प्रियम् आख्यातुं विवेशान्तःपुरं वशी
तां तत्र पतितां भूमौ शयानाम् अतथोचिताम् ।
प्रतप्त इव दुःखेन सो ऽपश्यज् जगतीपतिः
स वृद्धस् तरुणीं भार्यां प्राणेभ्यो ऽपि गरीयसीम् ।
अपापः पापसंकल्पां ददर्श धरणीतले
करेणुम् इव दिग्धेन विद्धां मृगयुणा वने ।
महागज इवारण्ये स्नेहात् परिममर्श ताम्
परिमृश्य च पाणिभ्याम् अभिसंत्रस्तचेतनः ।
कामी कमलपत्त्राक्षीम् उवाच वनिताम् इदम्
न ते ऽहम् अभिजानामि क्रोधम् आत्मनि संश्रितम् ।
देवि केनाभियुक्तासि केन वासि विमानिता
यद् इदं मम दुःखाय शेषे कल्याणि पांसुषु ।
भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ।
भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥ रम्स्_2,10.7* ॥
सन्ति मे कुशला वैद्या अभितुष्टाश् च सर्वशः ।
सुखितां त्वां करिष्यन्ति व्याधिम् आचक्ष्व भामिनि
कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ।
कः प्रियं लभताम् अद्य को वा सुमहद् अप्रियम्
अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् ।
दरिद्रः को भवत्व् आढ्यो द्रव्यवान् वाप्य् अकिञ्चनः
अहं चैव मदीयाश् च सर्वे तव वशानुगाः ।
न ते कंचिद् अभिप्रायं व्याहन्तुम् अहम् उत्सहे
आत्मनो जीवितेनापि ब्रूहि यन् मनसेच्छसि ।
यावद् आवर्तते चक्रं तावती मे वसुंधरा
तथोक्ता सा समाश्वस्ता वक्तुकामा तद् अप्रियम् ।
परिपीडयितुं भूयो भर्तारम् उपचक्रमे
नास्मि विप्रकृता देव केनचिन् न विमानिता ।
अभिप्रायस् तु मे कश्चित् तम् इच्छामि त्वया कृतम्
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुम् इच्छसि ।
अथ तद् व्याहरिष्यामि यद् अभिप्रार्थितं मया
एवम् उक्तस् तया राजा प्रियया स्त्रीवशं गतः ।
ताम् उवाच महातेजाः कैकेयीम् ईषदुत्स्मितः
अवलिप्ते न जानासि त्वत्तः प्रियतरो मम ।
मनुजो मनुजव्याघ्राद् रामाद् अन्यो न विद्यते
भद्रे हृदयम् अप्य् एतद् अनुमृश्योद्धरस्व मे ।
एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे
बलम् आत्मनि पश्यन्ती न मां शङ्कितुम् अर्हसि ।
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे
तेन वाक्येन संहृष्टा तम् अभिप्रायम् आत्मनः ।
व्याजहार महाघोरम् अभ्यागतम् इवान्तकम्
यथाक्रमेण शपसि वरं मम ददासि च ।
तच् छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः
चन्द्रादित्यौ नभश् चैव ग्रहा रात्र्यहनी दिशः ।
जगच् च पृथिवी चैव सगन्धर्वा सराक्षसा
निशाचराणि भूतानि गृहेषु गृहदेवताः ।
यानि चान्यानि भूतानि जानीयुर् भाषितं तव
सत्यसंधो महातेजा धर्मज्ञः सुसमाहितः ।
वरं मम ददात्य् एष तन् मे शृण्वन्तु देवताः
इति देवी महेष्वासं परिगृह्याभिशस्य च ।
ततः परम् उवाचेदं वरदं काममोहितम्
वरौ यौ मे त्वया देव तदा दत्तौ महीपते ।
तौ तावद् अहम् अद्यैव वक्ष्यामि शृणु मे वचः
अभिषेकसमारम्भो राघवस्योपकल्पितः ।
अनेनैवाभिषेकेण भरतो मे ऽभिषिच्यताम्
नव पञ्च च वर्षाणि दण्डकारण्यम् आश्रितः ।
चीराजिनजटाधारी रामो भवतु तापसः
भरतो भजताम् अद्य यौवराज्यम् अकण्टकम् ।
अद्य चैव हि पश्येयं प्रयान्तं राघवं वने
ततः श्रुत्वा महाराज कैकेय्या दारुणं वचः ।
व्यथितो विलवश् चैव व्याघ्रीं दृष्ट्वा यथा मृगः
असंवृतायाम् आसीनो जगत्यां दीर्घम् उच्छ्वसन् ।
अहो धिग् इति सामर्षो वाचम् उक्त्वा नराधिपः ।
मोहम् आपेदिवान् भूयः शोकोपहतचेतनः ॥ रम्स्_2,10.31* ॥
चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः ।
कैकेयीम् अब्रवीत् क्रुद्धः प्रदहन्न् इव चक्षुषा
नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ।
किं कृतं तव रामेण पापे पापं मयापि वा
सदा ते जननीतुल्यां वृत्तिं वहति राघवः ।
तस्यैव त्वम् अनर्थाय किंनिमित्तम् इहोद्यता
त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिता ।
अविज्ञानान् नृपसुता व्याली तीक्ष्णविषा यथा
जीवलोको यदा सर्वो रामस्येह गुणस्तवम् ।
अपराधं कम् उद्दिश्य त्यक्ष्यामीष्टम् अहं सुतम्
कौसल्यां वा सुमित्रां वा त्यजेयम् अपि वा श्रियम् ।
जीवितं वात्मनो रामं न त्व् एव पितृवत्सलम्
परा भवति मे प्रीतिर् दृष्ट्वा तनयम् अग्रजम् ।
अपश्यतस् तु मे रामं नष्टा भवति चेतना
तिष्ठेल् लोको विना सूर्यं सस्यं वा सलिलं विना ।
न तु रामं विना देहे तिष्ठेत् तु मम जीवितम्
तद् अलं त्यज्यताम् एष निश्चयः पापनिश्चये ।
अपि ते चरणौ मूर्ध्ना स्पृशाम्य् एष प्रसीद मे
स भूमिपालो विलपन्न् अनाथवत् स्त्रिया गृहीतो हृदये ऽतिमात्रया ।
पपात देव्याश् चरणौ प्रसारिताव् उभाव् असंस्पृश्य यथातुरस् तथा
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0