रामायण (दक्षिणी पाठ) · अध्याय 2.8
रामायण, अयोध्याकाण्ड, 8
मन्थरा त्व् अभ्यसूय्यैनाम् उत्सृज्याभरणं च तत् ।
उवाचेदं ततो वाक्यं कोपदुःखसमन्विता
हर्षं किम् इदम् अस्थाने कृतवत्य् असि बालिशे ।
शोकसागरमध्यस्थम् आत्मानं नावबुध्यसे
सुभगा खलु कौसल्या यस्याः पुत्रो ऽभिषेक्ष्यते ।
यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः
प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् ।
उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः
हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ।
अप्रहृष्टा भविष्यन्ति स्नुषास् ते भरतक्षये
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः ।
रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह
धर्मज्ञो गुरुभिर् दान्तः कृतज्ञः सत्यवाक् शुचिः ।
रामो राज्ञः सुतो ज्येष्ठो यौवराज्यम् अतो ऽर्हति
भ्रात्ःन् भृत्यांश् च दीर्घायुः पितृवत् पालयिष्यति ।
संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्
भरतश् चापि रामस्य ध्रुवं वर्षशतात् परम् ।
पितृपैतामहं राज्यम् अवाप्स्यति नरर्षभः
सा त्वम् अभ्युदये प्राप्ते वर्तमाने च मन्थरे ।
भविष्यति च कल्याणे किमर्थं परितप्यसे ।
कौसल्यातो ऽतिरिक्तं च स तु शुश्रूषते हि माम्
कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता ।
दीर्घम् उष्णं विनिःश्वस्य कैकेयीम् इदम् अब्रवीत्
अनर्थदर्शिनी मौर्ख्यान् नात्मानम् अवबुध्यसे ।
शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे
भविता राघवो राजा राघवस्य च यः सुतः ।
राजवंशात् तु भरतः कैकेयि परिहास्यते
न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।
स्थाप्यमानेषु सर्वेषु सुमहान् अनयो भवेत्
तस्माज् ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः ।
स्थापयन्त्य् अनवद्याङ्गि गुणवत्स्व् इतरेष्व् अपि
असाव् अत्यन्तनिर्भग्नस् तव पुत्रो भविष्यति ।
अनाथवत् सुखेभ्यश् च राजवंशाच् च वत्सले
साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुध्यसे ।
सपत्निवृद्धौ या मे त्वं प्रदेयं दातुम् इच्छसि
ध्रुवं तु भरतं रामः प्राप्य राज्यम् अकण्टकम् ।
देशान्तरं नाययित्वा लोकान्तरम् अथापि वा
बाल एव हि मातुल्यं भरतो नायितस् त्वया ।
संनिकर्षाच् च सौहार्दं जायते स्थावरेष्व् अपि
गोप्ता हि रामं सौमित्रिर् लक्ष्मणं चापि राघवः ।
अश्विनोर् इव सौभ्रात्रं तयोर् लोकेषु विश्रुतम्
तस्मान् न लक्ष्मणे रामः पापं किंचित् करिष्यति ।
रामस् तु भरते पापं कुर्याद् इति न संशयः
तस्माद् राजगृहाद् एव वनं गच्छतु ते सुतः ।
एतद्धि रोचते मह्यं भृशं चापि हितं तव
एवं ते ज्ञातिपक्षस्य श्रेयश् चैव भविष्यति ।
यदि चेद् भरतो धर्मात् पित्र्यं राज्यम् अवाप्स्यति
स ते सुखोचितो बालो रामस्य सहजो रिपुः ।
समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे
अभिद्रुतम् इवारण्ये सिंहेन गजयूथपम् ।
प्रच्छाद्यमानं रामेण भरतं त्रातुम् अर्हसि
दर्पान् निराकृता पूर्वं त्वया सौभाग्यवत्तया ।
राममाता सपत्नी ते कथं वैरं न यातयेत्
यदा हि रामः पृथिवीम् अवाप्स्यति ध्रुवं प्रनष्टो भरतो भविष्यति ।
अतो हि संचिन्तय राज्यम् आत्मजे परस्य चाद्यैव विवासकारणम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0