भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.87

2.87.1

रामायण, अयोध्याकाण्ड, 87
तया महत्या यायिन्या ध्वजिन्या वनवासिनः ।
अर्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः

2.87.2

ऋक्षाः पृषतसंघाश् च रुरवश् च समन्ततः ।
दृश्यन्ते वनराजीषु गिरिष्व् अपि नदीषु च

2.87.3

स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः ।
वृतो महत्या नादिन्या सेनया चतुरङ्गया

2.87.4

सागरौघनिभा सेना भरतस्य महात्मनः ।
महीं संछादयामास प्रावृषि द्याम् इवाम्बुदः

2.87.5

तुरंगौघैर् अवतता वारणैश् च महाजवैः ।
अनालक्ष्या चिरं कालं तस्मिन् काले बभूव भूः

2.87.6

स यात्वा दूरम् अध्वानं सुपरिश्रान्तवाहनः ।
उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम्

2.87.7

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।
व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यम् अब्रवीत्

2.87.8

अयं गिरिश् चित्रकूटस् तथा मन्दाकिनी नदी ।
एतत् प्रकाशते दूरान् नीलमेघनिभं वनम्

2.87.9

गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति ।
वारणैर् अवमृद्यन्ते मामकैः पर्वतोपमैः

2.87.10

मुञ्चन्ति कुसुमान्य् एते नगाः पर्वतसानुषु ।
नीला इवातपापाये तोयं तोयधरा घनाः

2.87.11

किंनराचरितोद्देशं पश्य शत्रुघ्न पर्वतम् ।
हयैः समन्ताद् आकीर्णं मकरैर् इव सागरम्

2.87.12

एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः ।
वायुप्रविद्धाः शरदि मेघराजिर् इवाम्बरे

2.87.13

कुर्वन्ति कुसुमापीडाञ् शिरःसु सुरभीन् अमी ।
मेघप्रकाशैः फलकैर् दाक्षिणात्या यथा नराः

2.87.14

निष्कूजम् इव भूत्वेदं वनं घोरप्रदर्शनम् ।
अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा

2.87.15

खुरैर् उदीरितो रेणुर् दिवं प्रच्छाद्य तिष्ठति ।
तं वहत्य् अनिलः शीघ्रं कुर्वन्न् इव मम प्रियम्

2.87.16

स्यन्दनांस् तुरगोपेतान् सूतमुख्यैर् अधिष्ठितान् ।
एतान् संपततः शीघ्रं पश्य शत्रुघ्न कानने

2.87.17

एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान् ।
एतम् आविशतः शैलम् अधिवासं पतत्रिणाम्

2.87.18

अतिमात्रम् अयं देशो मनोज्ञः प्रतिभाति मा ।
तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा

2.87.19

मृगा मृगीभिः सहिता बहवः पृषता वने ।
मनोज्ञरूपा लक्ष्यन्ते कुसुमैर् इव चित्रिताः

2.87.20

साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम् ।
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ

2.87.21

भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः ।
विविशुस् तद् वनं शूरा धूमं च ददृशुस् ततः

2.87.22

ते समालोक्य धूमाग्रम् ऊचुर् भरतम् आगताः ।
नामनुष्ये भवत्य् अग्निर् व्यक्तम् अत्रैव राघवौ

2.87.23

अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ ।
अन्ये रामोपमाः सन्ति व्यक्तम् अत्र तपस्विनः

2.87.24

तच् छ्रुत्वा भरतस् तेषां वचनं साधुसंमतम् ।
सैन्यान् उवाच सर्वांस् तान् अमित्रबलमर्दनः

2.87.25

यत्ता भवन्तस् तिष्ठन्तु नेतो गन्तव्यम् अग्रतः ।
अहम् एव गमिष्यामि सुमन्त्रो गुरुर् एव च

2.87.26

एवम् उक्तास् ततः सर्वे तत्र तस्थुः समन्ततः ।
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात्

2.87.27

व्यवस्थिता या भरतेन सा चमूर् निरीक्षमाणापि च धूमम् अग्रतः ।
बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc