रामायण (दक्षिणी पाठ) · अध्याय 2.88
रामायण, अयोध्याकाण्ड, 88
दीर्घकालोषितस् तस्मिन् गिरौ गिरिवनप्रियः ।
वैदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन्
अथ दाशरथिश् चित्रं चित्रकूटम् अदर्शयत् ।
भार्याम् अमरसंकाशः शचीम् इव पुरंदरः
न राज्याद् भ्रंशनं भद्रे न सुहृद्भिर् विनाभवः ।
मनो मे बाधते दृष्ट्वा रमणीयम् इमं गिरिम्
पश्येमम् अचलं भद्रे नानाद्विजगणायुतम् ।
शिखरैः खम् इवोद्विद्धैर् धातुमद्भिर् विभूषितम्
केचिद् रजतसंकाशाः केचित् क्षतजसंनिभाः ।
पीतमाञ्जिष्ठवर्णाश् च केचिन् मणिवरप्रभाः
पुष्पार्ककेतकाभाश् च केचिज् ज्योतीरसप्रभाः ।
विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिताः
नानामृगगणद्वीपितरक्ष्वृक्षगणैर् वृतः ।
अदुष्टैर् भात्य् अयं शैलो बहुपक्षिसमाकुलः
आम्रजम्ब्वसनैर् लोध्रैः प्रियालैः पनसैर् धवैः ।
अङ्कोलैर् भव्यतिनिशैर् बिल्वतिन्दुकवेणुभिः
काश्मर्यरिष्टवरणैर् मधूकैस् तिलकैस् तथा ।
बदर्यामलकैर् नीपैर् वेत्रधन्वनबीजकैः
पुष्पवद्भिः फलोपेतैश् छायावद्भिर् मनोरमैः ।
एवमादिभिर् आकीर्णः श्रियं पुष्यत्य् अयं गिरिः
शैलप्रस्थेषु रम्येषु पश्येमान् कामहर्षणान् ।
किंनरान् द्वंद्वशो भद्रे रममाणान् मनस्विनः
शाखावसक्तान् खड्गांश् च प्रवराण्य् अम्बराणि च ।
पश्य विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान्
जलप्रपातैर् उद्भेदैर् निस्यन्दैश् च क्वचित् क्वचित् ।
स्रवद्भिर् भात्य् अयं शैलः स्रवन् मद इव द्विपः
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।
घ्राणतर्पणम् अभ्येत्य कं नरं न प्रहर्षयेत्
यदीह शरदो ऽनेकास् त्वया सार्धम् अनिन्दिते ।
लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति
बहुपुष्पफले रम्ये नानाद्विजगणायुते ।
विचित्रशिखरे ह्य् अस्मिन् रतवान् अस्मि भामिनि
अनेन वनवासेन मया प्राप्तं फलद्वयम् ।
पितुश् चानृणता धर्मे भरतस्य प्रियं तथा
वैदेहि रमसे कच्चिच् चित्रकूटे मया सह ।
पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान्
इदम् एवामृतं प्राहू राज्ञां राजर्षयः परे ।
वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः
शिलाः शैलस्य शोभन्ते विशालाः शतशो ऽभितः ।
बहुला बहुलैर् वर्णैर् नीलपीतसितारुणैः
निशि भान्त्य् अचलेन्द्रस्य हुताशनशिखा इव ।
ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः
केचित् क्षयनिभा देशाः केचिद् उद्यानसंनिभाः ।
केचिद् एकशिला भान्ति पर्वतस्यास्य भामिनि
भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः ।
चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वतः शिवः
कुष्ठपुंनागतगरभूर्जपत्रोत्तरछदान् ।
कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान्
मृदिताश् चापविद्धाश् च दृश्यन्ते कमलस्रजः ।
कामिभिर् वनिते पश्य फलानि विविधानि च
वस्वौकसारां नलिनीम् अत्येतीवोत्तरान् कुरून् ।
पर्वतश् चित्रकूटो ऽसौ बहुमूलफलोदकः
इमं तु कालं वनिते विजह्रिवांस् त्वया च सीते सह लक्ष्मणेन च ।
रतिं प्रपत्स्ये कुलधर्मवर्धिनीं सतां पथि स्वैर् नियमैः परैः स्थितः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0