भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.86

2.86.1

रामायण, अयोध्याकाण्ड, 86
ततस् तां रजनीम् उष्य भरतः सपरिच्छदः ।
कृतातिथ्यो भरद्वाजं कामाद् अभिजगाम ह

2.86.2

तम् ऋषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिम् आगतम् ।
हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत

2.86.3

कच्चिद् अत्र सुखा रात्रिस् तवास्मद्विषये गता ।
समग्रस् ते जनः कच्चिद् आतिथ्ये शंस मे ऽनघ

2.86.4

तम् उवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च ।
आश्रमाद् अभिनिष्क्रान्तम् ऋषिम् उत्तमतेजसम्

2.86.5

सुखोषितो ऽस्मि भगवन् समग्रबलवाहनः ।
तर्पितः सर्वकामैश् च सामात्यो बलवत् त्वया

2.86.6

अपेतक्लमसंतापाः सुभिक्षाः सुप्रतिश्रयाः ।
अपि प्रेष्यान् उपादाय सर्वे स्म सुसुखोषिताः

2.86.7

आमन्त्रये ऽहं भगवन् कामं त्वाम् ऋषिसत्तम ।
समीपं प्रस्थितं भ्रातुर् मैत्रेणेक्षस्व चक्षुषा

2.86.8

आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः ।
आचक्ष्व कतमो मार्गः कियान् इति च शंस मे

2.86.9

इति पृष्टस् तु भरतं भ्रातृदर्शनलालसम् ।
प्रत्युवाच महातेजा भरद्वाजो महातपाः

2.86.10

भरतार्धतृतीयेषु योजनेष्व् अजने वने ।
चित्रकूटो गिरिस् तत्र रम्यनिर्दरकाननः

2.86.11

उत्तरं पार्श्वम् आसाद्य तस्य मन्दाकिनी नदी ।
पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना

2.86.12

अनन्तरं तत् सरितश् चित्रकूटश् च पर्वतः ।
तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम्

2.86.14

दक्षिणेनैव मार्गेण सव्यदक्षिणम् एव च ।
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।
वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ रम्स्_2,86.13* ॥
प्रयाणम् इति च श्रुत्वा राजराजस्य योषितः ।
हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन्

2.86.15

वेपमाना कृशा दीना सह देव्या सुमित्रया ।
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः

2.86.16

असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा

2.86.17

तं प्रदक्षिणम् आगम्य भगवन्तं महामुनिम् ।
अदूराद् भरतस्यैव तस्थौ दीनमनास् तदा

2.86.18

ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ।
विशेषं ज्ञातुम् इच्छामि मात्ःणां तव राघव

2.86.19

एवम् उक्तस् तु भरतो भरद्वाजेन धार्मिकः ।
उवाच प्राञ्जलिर् भूत्वा वाक्यं वचनकोविदः

2.86.20

याम् इमां भगवन् दीनां शोकानशनकर्शिताम् ।
पितुर् हि महिषीं देवीं देवताम् इव पश्यसि

2.86.21

एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।
कौसल्या सुषुवे रामं धातारम् अदितिर् यथा

2.86.22

अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः ।
कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे

2.86.23

एतस्यास् तौ सुतौ देव्याः कुमारौ देववर्णिनौ ।
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ

2.86.24

यस्याः कृते नरव्याघ्रौ जीवनाशम् इतो गतौ ।
राजा पुत्रविहीनश् च स्वर्गं दशरथो गतः

2.86.26

ऐश्वर्यकामां कैकेयीम् अनार्याम् आर्यरूपिणीम् ।
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।
यतोमूलं हि पश्यामि व्यसनं महद् आत्मनः ॥ रम्स्_2,86.25* ॥
इत्य् उक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।
स निशश्वास ताम्राक्षो नागः क्रुद्ध इवासकृत्

2.86.27

भरद्वाजो महर्षिस् तं ब्रुवन्तं भरतं तदा ।
प्रत्युवाच महाबुद्धिर् इदं वचनम् अर्थवत्

2.86.28

न दोषेणावगन्तव्या कैकेयी भरत त्वया ।
रामप्रव्राजनं ह्य् एतत् सुखोदर्कं भविष्यति

2.86.29

अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् ।
आमन्त्र्य भरतः सैन्यं युज्यताम् इत्य् अचोदयत्

2.86.30

ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् ।
अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः

2.86.31

गजकन्यागजाश् चैव हेमकक्ष्याः पताकिनः ।
जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे

2.86.32

विविधान्य् अपि यानानि महान्ति च लघूनि च ।
प्रययुः सुमहार्हाणि पादैर् एव पदातयः

2.86.33

अथ यानप्रवेकैस् तु कौसल्याप्रमुखाः स्त्रियः ।
रामदर्शनकाङ्क्षिण्यः प्रययुर् मुदितास् तदा

2.86.34

स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।
आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः

2.86.36

सा प्रयाता महासेना गजवाजिरथाकुला ।
दक्षिणां दिशम् आवृत्य महामेघ इवोत्थितः ।
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः ॥ रम्स्_2,86.35* ॥
सा सम्प्रहृष्टद्विपवाजियोधा वित्रासयन्ती मृगपक्षिसंघान् ।
महद् वनं तत् प्रविगाहमाना रराज सेना भरतस्य तत्र

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc