रामायण (दक्षिणी पाठ) · अध्याय 2.85
रामायण, अयोध्याकाण्ड, 85
कृतबुद्धिं निवासाय तथैव स मुनिस् तदा ।
भरतं कैकयीपुत्रम् आतिथ्येन न्यमन्त्रयत्
अब्रवीद् भरतस् त्व् एनं नन्व् इदं भवता कृतम् ।
पाद्यम् अर्घ्यं तथातिथ्यं वने यद् उपपद्यते
अथोवाच भरद्वाजो भरतं प्रहसन्न् इव ।
जाने त्वां प्रीतिसंयुक्तं तुष्येस् त्वं येन केनचित्
सेनायास् तु तवैतस्याः कर्तुम् इच्छामि भोजनम् ।
मम प्रीतिर् यथारूपा त्वम् अर्हो मनुजर्षभ
किमर्थं चापि निक्षिप्य दूरे बलम् इहागतः ।
कस्मान् नेहोपयातो ऽसि सबलः पुरुषर्षभ
भरतः प्रत्युवाचेदं प्राञ्जलिस् तं तपोधनम् ।
ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात्
वाजिमुख्या मनुष्याश् च मत्ताश् च वरवारणाः ।
प्रच्छाद्य महतीं भूमिं भगवन्न् अनुयान्ति माम्
ते वृक्षान् उदकं भूमिम् आश्रमेषूटजांस् तथा ।
न हिंस्युर् इति तेनाहम् एक एवागतस् ततः
आनीयताम् इतः सेनेत्य् आज्ञप्तः परमर्षिणा ।
तथा तु चक्रे भरतः सेनायाः समुपागमम्
अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर् विश्वकर्माणम् आह्वयत्
आह्वये विश्वकर्माणम् अहं त्वष्टारम् एव च ।
आतिथ्यं कर्तुम् इच्छामि तत्र मे संविधीयताम्
प्राक्स्रोतसश् च या नद्यः प्रत्यक्स्रोतस एव च ।
पृथिव्याम् अन्तरिक्षे च समायान्त्व् अद्य सर्वशः
अन्याः स्रवन्तु मैरेयं सुराम् अन्याः सुनिष्ठिताम् ।
अपराश् चोदकं शीतम् इक्षुकाण्डरसोपमम्
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।
तथैवाप्सरसो देवीर् गन्धर्वीश् चापि सर्वशः
घृताचीम् अथ विश्वाचीं मिश्रकेशीम् अलम्बुसाम् ।
शक्रं याश् चोपतिष्ठन्ति ब्रह्माणं याश् च भामिनीः ।
सर्वास् तुम्बुरुणा सार्धम् आह्वये सपरिच्छदाः ॥ रम्स्_2,85.15* ॥
वनं कुरुषु यद् दिव्यं वासो भूषणपत्त्रवत् ।
दिव्यनारीफलं शश्वत् तत् कौबेरम् इहैव तु
इह मे भगवान् सोमो विधत्ताम् अन्नम् उत्तमम् ।
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु
विचित्राणि च माल्यानि पादपप्रच्युतानि च ।
सुरादीनि च पेयानि मांसानि विविधानि च
एवं समाधिना युक्तस् तेजसाप्रतिमेन च ।
शिक्षास्वरसमायुक्तं तपसा चाब्रवीन् मुनिः
मनसा ध्यायतस् तस्य प्राङ्मुखस्य कृताञ्जलेः ।
आजग्मुस् तानि सर्वाणि दैवतानि पृथक्पृथक्
मलयं दर्दुरं चैव ततः स्वेदनुदो ऽनिलः ।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः
ततो ऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः ।
देवदुन्दुभिघोषश् च दिक्षु सर्वासु शुश्रुवे
प्रववुश् चोत्तमा वाता ननृतुश् चाप्सरोगणाः ।
प्रजगुर् देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान्
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।
विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः
तस्मिन्न् उपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम् ।
ददर्श भारतं सैन्यं विधानं विश्वकर्मणः
बभूव हि समा भूमिः समन्तात् पञ्चयोजनम् ।
शाद्वलैर् बहुभिश् छन्ना नीलवैडूर्यसंनिभैः
तस्मिन् बिल्वाः कपित्थाश् च पनसा बीजपूरकाः ।
आमलक्यो बभूवुश् च चूताश् च फलभूषणाः
उत्तरेभ्यः कुरुभ्यश् च वनं दिव्योपभोगवत् ।
आजगाम नदी दिव्या तीरजैर् बहुभिर् वृता
चतुःशालानि शुभ्राणि शालाश् च गजवाजिनाम् ।
हर्म्यप्रासादसंघातास् तोरणानि शुभानि च
सितमेघनिभं चापि राजवेश्म सुतोरणम् ।
शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम्
चतुरस्रम् असंबाधं शयनासनयानवत् ।
दिव्यैः सर्वरसैर् युक्तं दिव्यभोजनवस्त्रवत्
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ।
कॢप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम्
प्रविवेश महाबाहुर् अनुज्ञातो महर्षिणा ।
वेश्म तद् रत्नसम्पूर्णं भरतः कैकयीसुतः
अनुजग्मुश् च तं सर्वे मन्त्रिणः सपुरोहिताः ।
बभूवुश् च मुदा युक्तास् तं दृष्ट्वा वेश्मसंविधिम्
तत्र राजासनं दिव्यं व्यजनं छत्त्रम् एव च ।
भरतो मन्त्रिभिः सार्धम् अभ्यवर्तत राजवत्
आसनं पूजयामास रामायाभिप्रणम्य च ।
वालव्यजनम् आदाय न्यषीदत् सचिवासने
आनुपूर्व्यान् निषेदुश् च सर्वे मन्त्रिपुरोहिताः ।
ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः
ततस् तत्र मुहूर्तेन नद्यः पायसकर्दमाः ।
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात्
तासाम् उभयतः कूलं पाण्डुमृत्तिकलेपनाः ।
रम्याश् चावसथा दिव्या ब्रह्मणस् तु प्रसादजाः
तेनैव च मुहूर्तेन दिव्याभरणभूषिताः ।
आगुर् विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः
सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः ।
आगुर् विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः
याभिर् गृहीतः पुरुषः सोन्माद इव लक्ष्यते ।
आगुर् विंशतिसाहस्रा नन्दनाद् अप्सरोगणाः
नारदस् तुम्बुरुर् गोपः पर्वतः सूर्यवर्चसः ।
एते गन्धर्वराजानो भरतस्याग्रतो जगुः
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।
उपानृत्यंस् तु भरतं भरद्वाजस्य शासनात्
यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
प्रयागे तान्य् अदृश्यन्त भरद्वाजस्य शासनात्
बिल्वा मार्दङ्गिका आसञ् शम्याग्राहा विभीतकाः ।
अश्वत्था नर्तकाश् चासन् भरद्वाजस्य तेजसा
ततः सरलतालाश् च तिलका नक्तमालकाः ।
प्रहृष्टास् तत्र संपेतुः कुब्जा भूत्वाथ वामनाः
शिंशपामलकी जम्बूर् याश् चान्याः कानने लताः ।
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवसन्
सुरां सुरापाः पिबत पायसं च बुभुक्षिताः ।
मांसानि च सुमेध्यानि भक्ष्यन्तां यावद् इच्छथ
उत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।
अप्य् एकम् एकं पुरुषं प्रमदाः सप्त चाष्ट च
संवहन्त्यः समापेतुर् नार्यो रुचिरलोचनाः ।
परिमृज्य तथा न्यायं पाययन्ति वराङ्गनाः
हयान् गजान् खरान् उष्ट्रांस् तथैव सुरभेः सुतान् ।
इक्षूंश् च मधुजालांश् च भोजयन्ति स्म वाहनान् ।
इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ रम्स्_2,85.52* ॥
नाश्वबन्धो ऽश्वम् आजानान् न गजं कुञ्जरग्रहः ।
मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ
तर्पिताः सर्वकामैस् ते रक्तचन्दनरूषिताः ।
अप्सरोगणसंयुक्ताः सैन्या वाचम् उदैरयन्
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम्
इति पादातयोधाश् च हस्त्यश्वारोहबन्धकाः ।
अनाथास् तं विधिं लब्ध्वा वाचम् एताम् उदैरयन्
सम्प्रहृष्टा विनेदुस् ते नरास् तत्र सहस्रशः ।
भरतस्यानुयातारः स्वर्गो ऽयम् इति चाब्रुवन्
ततो भुक्तवतां तेषां तद् अन्नम् अमृतोपमम् ।
दिव्यान् उद्वीक्ष्य भक्ष्यांस् तान् अभवद् भक्षणे मतिः
प्रेष्याश् चेट्यश् च वध्वश् च बलस्थाश् चापि सर्वशः ।
बभूवुस् ते भृशं तृप्ताः सर्वे चाहतवाससः
कुञ्जराश् च खरोष्ट्रश् च गोऽश्वाश् च मृगपक्षिणः ।
बभूवुः सुभृतास् तत्र नान्यो ह्य् अन्यम् अकल्पयत्
नाशुक्लवासास् तत्रासीत् क्षुधितो मलिनो ऽपि वा ।
रजसा ध्वस्तकेशो वा नरः कश्चिद् अदृश्यत
आजैश् चापि च वाराहैर् निष्ठानवरसंचयैः ।
फलनिर्यूहसंसिद्धैः सूपैर् गन्धरसान्वितैः
पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः ।
ददृशुर् विस्मितास् तत्र नरा लौहीः सहस्रशः
बभूवुर् वनपार्श्वेषु कूपाः पायसकर्दमाः ।
ताश् च कामदुघा गावो द्रुमाश् चासन् मधुश्च्युतः
वाप्यो मैरेयपूर्णाश् च मृष्टमांसचयैर् वृताः ।
प्रतप्तपिठरैश् चापि मार्गमायूरकौक्कुटैः
पात्रीणां च सहस्राणि शातकुम्भमयानि च ।
स्थाल्यः कुम्भ्यः करम्भ्यश् च दधिपूर्णाः सुसंस्कृताः ।
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ रम्स्_2,85.66* ॥
ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे ।
बभूवुः पायसस्यान्ते शर्करायाश् च संचयाः
कल्कांश् चूर्णकषायांश् च स्नानानि विविधानि च ।
ददृशुर् भाजनस्थानि तीर्थेषु सरितां नराः
शुक्लान् अंशुमतश् चापि दन्तधावनसंचयान् ।
शुक्लांश् चन्दनकल्कांश् च समुद्गेष्व् अवतिष्ठतः
दर्पणान् परिमृष्टांश् च वाससां चापि संचयान् ।
पादुकोपानहां चैव युग्मान् यत्र सहस्रशः
आञ्जनीः कङ्कतान् कूर्चांश् छत्त्राणि च धनूंषि च ।
मर्मत्राणानि चित्राणि शयनान्य् आसनानि च
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।
अवगाह्य सुतीर्थांश् च ह्रदान् सोत्पलपुष्करान्
नीलवैडूर्यवर्णांश् च मृदून् यवससंचयान् ।
निर्वापार्थं पशूनां ते ददृशुस् तत्र सर्वशः
व्यस्मयन्त मनुष्यास् ते स्वप्नकल्पं तद् अद्भुतम् ।
दृष्ट्वातिथ्यं कृतं तादृग् भरतस्य महर्षिणा
इत्य् एवं रममाणानां देवानाम् इव नन्दने ।
भरद्वाजाश्रमे रम्ये सा रात्रिर् व्यत्यवर्तत
प्रतिजग्मुश् च ता नद्यो गन्धर्वाश् च यथागतम् ।
भरद्वाजम् अनुज्ञाप्य ताश् च सर्वा वराङ्गनाः
तथैव मत्ता मदिरोत्कटा नरास् तथैव दिव्यागुरुचन्दनोक्षिताः ।
तथैव दिव्या विविधाः स्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0