भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.84

2.84.1

रामायण, अयोध्याकाण्ड, 84
भरद्वाजाश्रमं दृष्ट्वा क्रोशाद् एव नरर्षभः ।
बलं सर्वम् अवस्थाप्य जगाम सह मन्त्रिभिः

2.84.2

पद्भ्याम् एव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः ।
वसानो वाससी क्षौमे पुरोधाय पुरोहितम्

2.84.3

ततः संदर्शने तस्य भरद्वाजस्य राघवः ।
मन्त्रिणस् तान् अवस्थाप्य जगामानु पुरोहितम्

2.84.4

वसिष्ठम् अथ दृष्ट्वैव भरद्वाजो महातपाः ।
संचचालासनात् तूर्णं शिष्यान् अर्घ्यम् इति ब्रुवन्

2.84.5

समागम्य वसिष्ठेन भरतेनाभिवादितः ।
अबुध्यत महातेजाः सुतं दशरथस्य तम्

2.84.6

ताभ्याम् अर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।
आनुपूर्व्याच् च धर्मज्ञः पप्रच्छ कुशलं कुले

2.84.7

अयोध्यायां बले कोशे मित्रेष्व् अपि च मन्त्रिषु ।
जानन् दशरथं वृत्तं न राजानम् उदाहरत्

2.84.8

वसिष्ठो भरतश् चैनं पप्रच्छतुर् अनामयम् ।
शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु

2.84.9

तथेति च प्रतिज्ञाय भरद्वाजो महातपाः ।
भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात्

2.84.10

किम् इहागमने कार्यं तव राज्यं प्रशासतः ।
एतद् आचक्ष्व मे सर्वं न हि मे शुध्यते मनः

2.84.11

सुषुवे यममित्रघ्नं कौसल्यानन्दवर्धनम् ।
भ्रात्रा सह सभार्यो यश् चिरं प्रव्राजितो वनम्

2.84.12

नियुक्तः स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशाः ।
वनवासी भवेतीह समाः किल चतुर्दश

2.84.13

कच्चिन् न तस्यापापस्य पापं कर्तुम् इहेच्छसि ।
अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च

2.84.14

एवम् उक्तो भरद्वाजं भरतः प्रत्युवाच ह ।
पर्यश्रुनयनो दुःखाद् वाचा संसज्जमानया

2.84.15

हतो ऽस्मि यदि माम् एवं भगवान् अपि मन्यते ।
मत्तो न दोषम् आशङ्केर् नैवं माम् अनुशाधि हि

2.84.16

न चैतद् इष्टं माता मे यद् अवोचन् मदन्तरे ।
नाहम् एतेन तुष्टश् च न तद् वचनम् आददे

2.84.17

अहं तु तं नरव्याघ्रम् उपयातः प्रसादकः ।
प्रतिनेतुम् अयोध्यां च पादौ तस्याभिवन्दितुम्

2.84.18

त्वं माम् एवं गतं मत्वा प्रसादं कर्तुम् अर्हसि ।
शंस मे भगवन् रामः क्व सम्प्रति महीपतिः

2.84.20

उवाच तं भरद्वाजः प्रसादाद् भरतं वचः ।
त्वय्य् एतत् पुरुषव्याघ्र युक्तं राघववंशजे ।
गुरुवृत्तिर् दमश् चैव साधूनां चानुयायिता ॥ रम्स्_2,84.19* ॥
जाने चैतन् मनःस्थं ते दृढीकरणम् अस्त्व् इति ।
अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन्

2.84.22

असौ वसति ते भ्राता चित्रकूटे महागिरौ ।
श्वस् तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः ।
एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ रम्स्_2,84.21* ॥
ततस् तथेत्य् एवम् उदारदर्शनः प्रतीतरूपो भरतो ऽब्रवीद् वचः ।
चकार बुद्धिं च तदा महाश्रमे निशानिवासाय नराधिपात्मजः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc