भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.83

2.83.1

रामायण, अयोध्याकाण्ड, 83
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः ।
भरतः काल्यम् उत्थाय शत्रुघ्नम् इदम् अब्रवीत्

2.83.2

शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।
शीघ्रम् आनय भद्रं ते तारयिष्यति वाहिनीम्

2.83.3

जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् ।
इत्य् एवम् अब्रवीद् भ्रात्रा शत्रुघ्नो ऽपि प्रचोदितः

2.83.4

इति संवदतोर् एवम् अन्योन्यं नरसिंहयोः ।
आगम्य प्राञ्जलिः काले गुहो भरतम् अब्रवीत्

2.83.5

कच्चित् सुखं नदीतीरे ऽवात्सीः काकुत्स्थ शर्वरीम् ।
कच्चिच् च सह सैन्यस्य तव सर्वम् अनामयम्

2.83.6

गुहस्य तत् तु वचनं श्रुत्वा स्नेहाद् उदीरितम् ।
रामस्यानुवशो वाक्यं भरतो ऽपीदम् अब्रवीत्

2.83.7

सुखा नः शर्वरी राजन् पूजिताश् चापि ते वयम् ।
गङ्गां तु नौभिर् बह्वीभिर् दाशाः संतारयन्तु नः

2.83.8

ततो गुहः संत्वरितः श्रुत्वा भरतशासनम् ।
प्रतिप्रविश्य नगरं तं ज्ञातिजनम् अब्रवीत्

2.83.9

उत्तिष्ठत प्रबुध्यध्वं भद्रम् अस्तु हि वः सदा ।
नावः समनुकर्षध्वं तारयिष्याम वाहिनीम्

2.83.10

ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् ।
पञ्च नावां शतान्य् एव समानिन्युः समन्ततः

2.83.11

अन्याः स्वस्तिकविज्ञेया महाघण्टाधरा वराः ।
शोभमानाः पताकिन्यो युक्तवाताः सुसंहताः

2.83.12

ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।
सनन्दिघोषां कल्याणीं गुहो नावम् उपाहरत्

2.83.13

ताम् आरुरोह भरतः शत्रुघ्नश् च महाबलः ।
कौसल्या च सुमित्रा च याश् चान्या राजयोषितः

2.83.14

पुरोहितश् च तत् पूर्वं गुरवे ब्राह्मणाश् च ये ।
अनन्तरं राजदारास् तथैव शकटापणाः

2.83.15

आवासम् आदीपयतां तीर्थं चाप्य् अवगाहताम् ।
भाण्डानि चाददानानां घोषस् त्रिदिवम् अस्पृशत्

2.83.16

पताकिन्यस् तु ता नावः स्वयं दाशैर् अधिष्ठिताः ।
वहन्त्यो जनम् आरूढं तदा संपेतुर् आशुगाः

2.83.17

नारीणाम् अभिपूर्णास् तु काश्चित् काश्चित् तु वाजिनाम् ।
कश्चित् तत्र वहन्ति स्म यानयुग्यं महाधनम्

2.83.18

ताः स्म गत्वा परं तीरम् अवरोप्य च तं जनम् ।
निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः

2.83.19

सवैजयन्तास् तु गजा गजारोहैः प्रचोदिताः ।
तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः

2.83.20

नावश् चारुरुहुस् त्व् अन्ये प्लवैस् तेरुस् तथापरे ।
अन्ये कुम्भघटैस् तेरुर् अन्ये तेरुश् च बाहुभिः

2.83.21

सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम् ।
मैत्रे मुहूर्ते प्रययौ प्रयागवनम् उत्तमम्

2.83.22

आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजम् ऋषिप्रवर्यम् ऋत्विग्वृतः सन् भरतः प्रतस्थे

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc