रामायण (दक्षिणी पाठ) · अध्याय 2.82
रामायण, अयोध्याकाण्ड, 82
तच् छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः ।
इङ्गुदीमूलम् आगम्य रामशय्याम् अवेक्ष्य ताम्
अब्रवीज् जननीः सर्वा इह तेन महात्मना ।
शर्वरी शयिता भूमाव् इदम् अस्य विमर्दितम्
महाभागकुलीनेन महाभागेन धीमता ।
जातो दशरथेनोर्व्यां न रामः स्वप्तुम् अर्हति
अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये ।
शयित्वा पुरुषव्याघ्रः कथं शेते महीतले
प्रासादाग्रविमानेषु वलभीषु च सर्वदा ।
हैमराजतभौमेषु वरास्तरणशालिषु
पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु ।
पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च
गीतवादित्रनिर्घोषैर् वराभरणनिःस्वनैः ।
मृदङ्गवरशब्दैश् च सततं प्रतिबोधितः
बन्दिभिर् वन्दितः काले बहुभिः सूतमागधैः ।
गाथाभिर् अनुरूपाभिः स्तुतिभिश् च परंतपः
अश्रद्धेयम् इदं लोके न सत्यं प्रतिभाति मा ।
मुह्यते खलु मे भावः स्वप्नो ऽयम् इति मे मतिः
न नूनं दैवतं किंचित् कालेन बलवत्तरम् ।
यत्र दाशरथी रामो भूमाव् एवं शयीत सः
विदेहराजस्य सुता सीता च प्रियदर्शना ।
दयिता शयिता भूमौ स्नुषा दशरथस्य च
इयं शय्या मम भ्रातुर् इदं हि परिवर्तितम् ।
स्थण्डिले कठिने सर्वं गात्रैर् विमृदितं तृणम्
मन्ये साभरणा सुप्ता सीतास्मिञ् शयने तदा ।
तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः
उत्तरीयम् इहासक्तं सुव्यक्तं सीतया तदा ।
तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेयतन्तवः
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।
सुकुमारी सती दुःखं न विजानाति मैथिली
सार्वभौमकुले जातः सर्वलोकसुखावहः ।
सर्वलोकप्रियस् त्यक्त्वा राज्यं प्रियम् अनुत्तमम्
कथम् इन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः ।
सुखभागी च दुःखार्हः शयितो भुवि राघवः
सिद्धार्था खलु वैदेही पतिं यानुगता वनम् ।
वयं संशयिताः सर्वे हीनास् तेन महात्मना
अकर्णधारा पृथिवी शून्येव प्रतिभाति मा ।
गते दशरथे स्वर्गे रामे चारण्यम् आश्रिते
न च प्रार्थयते कश्चिन् मनसापि वसुंधराम् ।
वने ऽपि वसतस् तस्य बाहुवीर्याभिरक्षिताम्
शून्यसंवरणारक्षाम् अयन्त्रितहयद्विपाम् ।
अपावृतपुरद्वारां राजधानीम् अरक्षिताम्
अप्रहृष्टबलां न्यूनां विषमस्थाम् अनावृताम् ।
शत्रवो नाभिमन्यन्ते भक्षान् विषकृतान् इव
अद्य प्रभृति भूमौ तु शयिष्ये ऽहं तृणेषु वा ।
फलमूलाशनो नित्यं जटाचीराणि धारयन्
तस्यार्थम् उत्तरं कालं निवत्स्यामि सुखं वने ।
तं प्रतिश्रवम् आमुच्य नास्य मिथ्या भविष्यति
वसन्तं भ्रातुर् अर्थाय शत्रुघ्नो मानुवत्स्यति ।
लक्ष्मणेन सह त्व् आर्यो ऽयोध्यां पालयिष्यति
अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायां द्विजातयः ।
अपि मे देवताः कुर्युर् इमं सत्यं मनोरथम्
प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि न प्रपत्स्यते ।
ततो ऽनुवत्स्यामि चिराय राघवं वने वसन् नार्हति माम् उपेक्षितुम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0