रामायण (दक्षिणी पाठ) · अध्याय 2.81
रामायण, अयोध्याकाण्ड, 81
गुहस्य वचनं श्रुत्वा भरतो भृशम् अप्रियम् ।
ध्यानं जगाम तत्रैव यत्र तच् छ्रुतम् अप्रियम्
सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः ।
पुण्डरीकविशालाक्षस् तरुणः प्रियदर्शनः
प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः ।
पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः
तदवस्थं तु भरतं शत्रुघ्नो ऽनन्तरस्थितः ।
परिष्वज्य रुरोदोच्चैर् विसंज्ञः शोककर्शितः
ततः सर्वाः समापेतुर् मातरो भरतस्य ताः ।
उपवासकृशा दीना भर्तृव्यसनकर्शिताः
ताश् च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् ।
कौसल्या त्व् अनुसृत्यैनं दुर्मनाः परिषस्वजे
वत्सला स्वं यथा वत्सम् उपगूह्य तपस्विनी ।
परिपप्रच्छ भरतं रुदन्ती शोकलालसा
पुत्र व्याधिर् न ते कच्चिच् छरीरं परिबाधते ।
अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम्
त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।
वृत्ते दशरथे राज्ञि नाथ एकस् त्वम् अद्य नः
कच्चिन् न लक्ष्मणे पुत्र श्रुतं ते किंचिद् अप्रियम् ।
पुत्र वा ह्य् एकपुत्रायाः सहभार्ये वनं गते
स मुहूर्तं समाश्वस्य रुदन्न् एव महायशाः ।
कौसल्यां परिसान्त्व्येदं गुहं वचनम् अब्रवीत्
भ्राता मे क्वावसद् रात्रिं क्व सीता क्व च लक्ष्मणः ।
अस्वपच् छयने कस्मिन् किं भुक्त्वा गुह शंस मे
सो ऽब्रवीद् भरतं पृष्टो निषादाधिपतिर् गुहः ।
यद्विधं प्रतिपेदे च रामे प्रियहिते ऽतिथौ
अन्नम् उच्चावचं भक्षाः फलानि विविधानि च ।
रामायाभ्यवहारार्थं बहु चोपहृतं मया
तत् सर्वं प्रत्यनुज्ञासीद् रामः सत्यपराक्रमः ।
न हि तत् प्रत्यगृह्णात् स क्षत्रधर्मम् अनुस्मरन्
न ह्य् अस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा ।
इति तेन वयं राजन्न् अनुनीता महात्मना
लक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।
औपवास्यं तदाकार्षीद् राघवः सह सीतया
ततस् तु जलशेषेण लक्ष्मणो ऽप्य् अकरोत् तदा ।
वाग्यतास् ते त्रयः संध्याम् उपासत समाहिताः
सौमित्रिस् तु ततः पश्चाद् अकरोत् स्वास्तरं शुभम् ।
स्वयम् आनीय बर्हींषि क्षिप्रं राघवकारणात्
तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया ।
प्रक्षाल्य च तयोः पादाव् अपचक्राम लक्ष्मणः
एतत् तद् इङ्गुदीमूलम् इदम् एव च तत् तृणम् ।
यस्मिन् रामश् च सीता च रात्रिं तां शयिताव् उभौ
नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ् शरैः सुपूर्णाव् इषुधी परंतपः ।
महद् धनुः सज्यम् उपोह्य लक्ष्मणो निशाम् अतिष्ठत् परितो ऽस्य केवलम्
ततस् त्व् अहं चोत्तमबाणचापधृक् स्थितो ऽभवं तत्र स यत्र लक्ष्मणः ।
अतन्द्रिभिर् ज्ञातिभिर् आत्तकार्मुकैर् महेन्द्रकल्पं परिपालयंस् तदा
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0