रामायण (दक्षिणी पाठ) · अध्याय 2.80
रामायण, अयोध्याकाण्ड, 80
आचचक्षे ऽथ सद्भावं लक्ष्मणस्य महात्मनः ।
भरतायाप्रमेयाय गुहो गहनगोचरः
तं जाग्रतं गुणैर् युक्तं वरचापेषुधारिणम् ।
भ्रातृगुप्त्यर्थम् अत्यन्तम् अहं लक्ष्मणम् अब्रुवम्
इयं तात सुखा शय्या त्वदर्थम् उपकल्पिता ।
प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन
उचितो ऽयं जनः सर्वो दुःखानां त्वं सुखोचितः ।
धर्मात्मंस् तस्य गुप्त्यर्थं जागरिष्यामहे वयम्
न हि रामात् प्रियतरो ममास्ति भुवि कश्चन ।
मोत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यं तवाग्रतः
अस्य प्रसादाद् आशंसे लोके ऽस्मिन् सुमहद् यशः ।
धर्मावाप्तिं च विपुलाम् अर्थावाप्तिं च केवलाम्
सो ऽहं प्रियसखं रामं शयानं सह सीतया ।
रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर् ज्ञातिभिः सह
न हि मे ऽविदितं किंचिद् वने ऽस्मिंश् चरतः सदा ।
चतुरङ्गं ह्य् अपि बलं प्रसहेम वयं युधि
एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना ।
अनुनीता वयं सर्वे धर्मम् एवानुपश्यता
कथं दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा
यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ।
तं पश्य गुह संविष्टं तृणेषु सह सीतया
महता तपसा लब्धो विविधैश् च परिश्रमैः ।
एको दशरथस्यैष पुत्रः सदृशलक्षणः
अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति ।
विधवा मेदिनी नूनं क्षिप्रम् एव भविष्यति
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।
निर्घोषोपरतं नूनम् अद्य राजनिवेशनम्
कौसल्या चैव राजा च तथैव जननी मम ।
नाशंसे यदि ते सर्वे जीवेयुः शर्वरीम् इमाम्
जीवेद् अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया ।
दुःखिता या तु कौसल्या वीरसूर् विनशिष्यति
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् ।
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति
सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्य् उपस्थिते ।
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।
हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम्
गजाश्वरथसम्बाधां तूर्यनादविनादिताम् ।
सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम्
आरामोद्यानसम्पूर्णां समाजोत्सवशालिनीम् ।
सुखिता विचरिष्यन्ति राजधानीं पितुर् मम
अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् ।
निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि
परिदेवयमानस्य तस्यैवं सुमहात्मनः ।
तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत
प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।
अस्मिन् भागीरथीतीरे सुखं संतारितौ मया
जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ ।
वरेषुचापासिधरौ परंतपौ व्यवेक्षमाणौ सह सीतया गतौ
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0