रामायण (दक्षिणी पाठ) · अध्याय 2.74
रामायण, अयोध्याकाण्ड, 74
अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः ।
स्वकर्माभिरताः शूराः खनका यन्त्रकास् तथा
कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः ।
तथा वर्धकयश् चैव मार्गिणो वृक्षतक्षकाः
कूपकाराः सुधाकारा वंशकर्मकृतस् तथा ।
समर्था ये च द्रष्टारः पुरतस् ते प्रतस्थिरे
स तु हर्षात् तम् उद्देशं जनौघो विपुलः प्रयान् ।
अशोभत महावेगः सागरस्येव पर्वणि
ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः ।
करणैर् विविधोपेतैः पुरस्तात् सम्प्रतस्थिरे
लतावल्लीश् च गुल्मांश् च स्थाणून् अश्मन एव च ।
जनास् ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान्
अवृक्षेषु च देशेषु केचिद् वृक्षान् अरोपयन् ।
केचित् कुठारैष् टङ्कैश् च दात्रैश् छिन्दन् क्वचित् क्वचित्
अपरे वीरणस्तम्बान् बलिनो बलवत्तराः ।
विधमन्ति स्म दुर्गाणि स्थलानि च ततस् ततः
अपरे ऽपूरयन् कूपान् पांसुभिः श्वभ्रम् आयतम् ।
निम्नभागांस् तथा केचित् समांश् चक्रुः समन्ततः
बबन्धुर् बन्धनीयांश् च क्षोद्यान् संचुक्षुदुस् तदा ।
बिभिदुर् भेदनीयांश् च तांस् तान् देशान् नरास् तदा
अचिरेणैव कालेन परिवाहान् बहूदकान् ।
चक्रुर् बहुविधाकारान् सागरप्रतिमान् बहून् ।
उदपानान् बहुविधान् वेदिकापरिमण्डितान् ॥ रम्स्_2,74.11* ॥
स सुधाकुट्टिमतलः प्रपुष्पितमहीरुहः ।
मत्तोद्घुष्टद्विजगणः पताकाभिर् अलंकृतः
चन्दनोदकसंसिक्तो नानाकुसुमभूषितः ।
बह्व् अशोभत सेनायाः पन्थाः स्वर्गपथोपमः
आज्ञाप्याथ यथाज्ञप्ति युक्तास् ते ऽधिकृता नराः ।
रमणीयेषु देशेषु बहुस्वादुफलेषु च
यो निवेशस् त्व् अभिप्रेतो भरतस्य महात्मनः ।
भूयस् तं शोभयामासुर् भूषाभिर् भूषणोपमम्
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।
निवेशं स्थापयामासुर् भरतस्य महात्मनः
बहुपांसुचयाश् चापि परिखापरिवारिताः ।
तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः
प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः ।
पताकाशोभिताः सर्वे सुनिर्मितमहापथाः
विसर्पद्भिर् इवाकाशे विटङ्काग्रविमानकैः ।
समुच्छ्रितैर् निवेशास् ते बभुः शक्रपुरोपमाः
जाह्नवीं तु समासाद्य विविधद्रुमकाननाम् ।
शीतलामलपानीयां महामीनसमाकुलाम्
सचन्द्रतारागणमण्डितं यथा नभः क्षपायाम् अमलं विराजते ।
नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0