भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.75

2.75.1

रामायण, अयोध्याकाण्ड, 75
ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः ।
तुष्टुवुर् वाग्विशेषज्ञाः स्तवैर् मङ्गलसंहितैः

2.75.2

सुवर्णकोणाभिहतः प्राणदद् यामदुन्दुभिः ।
दध्मुः शङ्खांश् च शतशो वाद्यांश् चोच्चावचस्वरान्

2.75.3

स तूर्यघोषः सुमहान् दिवम् आपूरयन्न् इव ।
भरतं शोकसंतप्तं भूयः शोकैर् अरन्ध्रयत्

2.75.4

ततः प्रबुद्धो भरतस् तं घोषं संनिवर्त्य च ।
नाहं राजेति चाप्य् उक्त्वा शत्रुघ्नम् इदम् अब्रवीत्

2.75.5

पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् ।
विसृज्य मयि दुःखानि राजा दशरथो गतः

2.75.6

तस्यैषा धर्मराजस्य धर्ममूला महात्मनः ।
परिभ्रमति राजश्रीर् नौर् इवाकर्णिका जले

2.75.7

इत्य् एवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् ।
कृपणं रुरुदुः सर्वाः सस्वरं योषितस् तदा

2.75.8

तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् ।
सभाम् इक्ष्वाकुनाथस्य प्रविवेश महायशाः

2.75.9

शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम् ।
सुधर्माम् इव धर्मात्मा सगणः प्रत्यपद्यत

2.75.10

स काञ्चनमयं पीठं परार्ध्यास्तरणावृतम् ।
अध्यास्त सर्ववेदज्ञो दूतान् अनुशशास च

2.75.11

ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गणवल्लभान् ।
क्षिप्रम् आनयताव्यग्राः कृत्यम् आत्ययिकं हि नः

2.75.12

ततो हलहलाशब्दो महान् समुदपद्यत ।
रथैर् अश्वैर् गजैश् चापि जनानाम् उपगच्छताम्

2.75.13

ततो भरतम् आयान्तं शतक्रतुम् इवामराः ।
प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा

2.75.14

ह्रद इव तिमिनागसंवृतः स्तिमितजलो मणिशङ्खशर्करः ।
दशरथसुतशोभिता सभा सदशरथेव बभौ यथा पुरा

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc