रामायण (दक्षिणी पाठ) · अध्याय 2.73
रामायण, अयोध्याकाण्ड, 73
ततः प्रभातसमये दिवसे ऽथ चतुर्दशे ।
समेत्य राजकर्तारो भरतं वाक्यम् अब्रुवन्
गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः ।
रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम्
त्वम् अद्य भव नो राजा राजपुत्र महायशः ।
संगत्या नापराध्नोति राज्यम् एतद् अनायकम्
आभिषेचनिकं सर्वम् इदम् आदाय राघव ।
प्रतीक्षते त्वां स्वजनः श्रेणयश् च नृपात्मज
राज्यं गृहाण भरत पितृपैतामहं महत् ।
अभिषेचय चात्मानं पाहि चास्मान् नरर्षभ
आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् ।
भरतस् तं जनं सर्वं प्रत्युवाच धृतव्रतः
ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः ।
नैवं भवन्तो मां वक्तुम् अर्हन्ति कुशला जनाः
रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः ।
अहं त्व् अरण्ये वत्स्यामि वर्षाणि नव पञ्च च
युज्यतां महती सेना चतुरङ्गमहाबला ।
आनयिष्याम्य् अहं ज्येष्ठं भ्रातरं राघवं वनात्
आभिषेचनिकं चैव सर्वम् एतद् उपस्कृतम् ।
पुरस्कृत्य गमिष्यामि रामहेतोर् वनं प्रति
तत्रैव तं नरव्याघ्रम् अभिषिच्य पुरस्कृतम् ।
आनेष्यामि तु वै रामं हव्यवाहम् इवाध्वरात्
न सकामां करिष्यामि स्वाम् इमां मातृगन्धिनीम् ।
वने वत्स्याम्य् अहं दुर्गे रामो राजा भविष्यति
क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च ।
रक्षिणश् चानुसंयान्तु पथि दुर्गविचारकाः
एवं सम्भाषमाणं तं रामहेतोर् नृपात्मजम् ।
प्रत्युवाच जनः सर्वः श्रीमद्वाक्यम् अनुत्तमम्
एवं ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् ।
यस् त्वं ज्येष्ठे नृपसुते पृथिवीं दातुम् इच्छसि
अनुत्तमं तद् वचनं नृपात्मज प्रभाषितं संश्रवणे निशम्य च ।
प्रहर्षजास् तं प्रति बाष्पबिन्दवो निपेतुर् आर्यानननेत्रसम्भवाः
ऊचुस् ते वचनम् इदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः ।
पन्थानं नरवरभक्तिमाञ् जनश् च व्यादिष्टस् तव वचनाच् च शिल्पिवर्गः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0