रामायण (दक्षिणी पाठ) · अध्याय 2.71
रामायण, अयोध्याकाण्ड, 71
ततो दशाहे ऽतिगते कृतशौचो नृपात्मजः ।
द्वादशे ऽहनि सम्प्राप्ते श्राद्धकर्माण्य् अकारयत्
ब्राह्मणेभ्यो ददौ रत्नं धनम् अन्नं च पुष्कलम् ।
बास्तिकं बहुशुक्लं च गाश् चापि शतशस् तथा
दासीदासं च यानं च वेश्मानि सुमहान्ति च ।
ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस् तस्यौर्ध्वदैहिकम्
ततः प्रभातसमये दिवसे ऽथ त्रयोदशे ।
विललाप महाबाहुर् भरतः शोकमूर्छितः
शब्दापिहितकण्ठश् च शोधनार्थम् उपागतः ।
चितामूले पितुर् वाक्यम् इदम् आह सुदुःखितः
तात यस्मिन् निसृष्टो ऽहं त्वया भ्रातरि राघवे ।
तस्मिन् वनं प्रव्रजिते शून्ये त्यक्तो ऽस्म्य् अहं त्वया
यथागतिर् अनाथायाः पुत्रः प्रव्राजितो वनम् ।
ताम् अम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप
दृष्ट्वा भस्मारुणं तच् च दग्धास्थिस्थानमण्डलम् ।
पितुः शरीरनिर्वाणं निष्टनन् विषसाद ह
स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले ।
उत्थाप्यमानः शक्रस्य यन्त्रध्वज इव च्युतः
अभिपेतुस् ततः सर्वे तस्यामात्याः शुचिव्रतम् ।
अन्तकाले निपतितं ययातिम् ऋषयो यथा
शत्रुघ्नश् चापि भरतं दृष्ट्वा शोकपरिप्लुतम् ।
विसंज्ञो न्यपतद् भूमौ भूमिपालम् अनुस्मरन्
उन्मत्त इव निश्चेता विललाप सुदुःखितः ।
स्मृत्वा पितुर् गुणाङ्गानि तानि तानि तदा तदा
मन्थराप्रभवस् तीव्रः कैकेयीग्राहसंकुलः ।
वरदानमयो ऽक्षोभ्यो ऽमज्जयच् छोकसागरः
सुकुमारं च बालं च सततं लालितं त्वया ।
क्व तात भरतं हित्वा विलपन्तं गतो भवान्
ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ।
प्रवारयसि नः सर्वांस् तन् नः को ऽद्य करिष्यति
अवदारणकाले तु पृथिवी नावदीर्यते ।
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना
पितरि स्वर्गम् आपन्ने रामे चारण्यम् आश्रिते ।
किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम्
हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकुपालिताम् ।
अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम्
तयोर् विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् ।
भृशम् आर्ततरा भूयः सर्व एवानुगामिनः
ततो विषण्णौ श्रान्तौ च शत्रुघ्नभरताव् उभौ ।
धरण्यां संव्यचेष्टेतां भग्नशृङ्गाव् इवर्षभौ
ततः प्रकृतिमान् वैद्यः पितुर् एषां पुरोहितः ।
वसिष्ठो भरतं वाक्यम् उत्थाप्य तम् उवाच ह
त्रीणि द्वंद्वानि भूतेषु प्रवृत्तान्य् अविशेषतः ।
तेषु चापरिहार्येषु नैवं भवितुम् अर्हति
सुमन्त्रश् चापि शत्रुघ्नम् उत्थाप्याभिप्रसाद्य च ।
श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ
उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ ।
वर्षातपपरिक्लिन्नौ पृथग् इन्द्रध्वजाव् इव
अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ ।
अमात्यास् त्वरयन्ति स्म तनयौ चापराः क्रियाः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0