रामायण (दक्षिणी पाठ) · अध्याय 2.70
रामायण, अयोध्याकाण्ड, 70
तम् एवं शोकसंतप्तं भरतं केकयीसुतम् ।
उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवाग् ऋषिः
अलं शोकेन भद्रं ते राजपुत्र महायशः ।
प्राप्तकालं नरपतेः कुरु संयानम् उत्तरम्
वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः ।
प्रेतकार्याणि सर्वाणि कारयामास धर्मवित्
उद्धृतं तैलसंक्लेदात् स तु भूमौ निवेशितम् ।
आपीतवर्णवदनं प्रसुप्तम् इव भूमिपम्
निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते ।
ततो दशरथं पुत्रो विललाप सुदुःखितः
किं ते व्यवसितं राजन् प्रोषिते मय्य् अनागते ।
विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम्
क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् ।
हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा
योगक्षेमं तु ते राजन् को ऽस्मिन् कल्पयिता पुरे ।
त्वयि प्रयाते स्वस् तात रामे च वनम् आश्रिते
विधवा पृथिवी राजंस् त्वया हीना न राजते ।
हीनचन्द्रेव रजनी नगरी प्रतिभाति माम्
एवं विलपमानं तं भरतं दीनमानसम् ।
अब्रवीद् वचनं भूयो वसिष्ठस् तु महान् ऋषिः
प्रेतकार्याणि यान्य् अस्य कर्तव्यानि विशांपतेः ।
तान्य् अव्यग्रं महाबाहो क्रियन्ताम् अविचारितम्
तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् ।
ऋत्विक्पुरोहिताचार्यांस् त्वरयामास सर्वशः
ये त्व् अग्रतो नरेन्द्रस्य अग्न्यगाराद् बहिष्कृताः ।
ऋत्विग्भिर् याजकैश् चैव ते ह्रियन्ते यथाविधि
शिबिकायाम् अथारोप्य राजानं गतचेतनम् ।
बाष्पकण्ठा विमनसस् तम् ऊहुः परिचारकाः
हिरण्यं च सुवर्णं च वासांसि विविधानि च ।
प्रकिरन्तो जना मार्गं नृपतेर् अग्रतो ययुः
चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा ।
देवदारूणि चाहृत्य चितां चक्रुस् तथापरे
गन्धान् उच्चावचांश् चान्यांस् तत्र दत्त्वाथ भूमिपम् ।
ततः संवेशयामासुश् चितामध्ये तम् ऋत्विजः
तथा हुताशनं हुत्वा जेपुस् तस्य तदर्त्विजः ।
जगुश् च ते यथाशास्त्रं तत्र सामानि सामगाः
शिबिकाभिश् च यानैश् च यथार्हं तस्य योषितः ।
नगरान् निर्ययुस् तत्र वृद्धैः परिवृतास् तदा
प्रसव्यं चापि तं चक्रुर् ऋत्विजो ऽग्निचितं नृपम् ।
स्त्रियश् च शोकसंतप्ताः कौसल्याप्रमुखास् तदा
क्रौञ्चीनाम् इव नारीणां निनादस् तत्र शुश्रुवे ।
आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः
ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः ।
यानेभ्यः सरयूतीरम् अवतेरुर् वराङ्गनाः
कृतोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिताश् च ।
पुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0