रामायण (दक्षिणी पाठ) · अध्याय 2.69
रामायण, अयोध्याकाण्ड, 69
तथैव क्रोशतस् तस्य भरतस्य महात्मनः ।
कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत्
आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः ।
तम् अहं द्रष्टुम् इच्छामि भरतं दीर्घदर्शिनम्
एवम् उक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा ।
प्रतस्थे भरतो यत्र वेपमाना विचेतना
स तु रामानुजश् चापि शत्रुघ्नसहितस् तदा ।
प्रतस्थे भरतो यत्र कौसल्याया निवेशनम्
ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ ।
पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम्
भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता ।
इदं ते राज्यकामस्य राज्यं प्राप्तम् अकण्टकम् ।
सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा ॥ रम्स्_2,69.6* ॥
प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् ।
कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी
क्षिप्रं माम् अपि कैकेयी प्रस्थापयितुम् अर्हति ।
हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः
अथ वा स्वयम् एवाहं सुमित्रानुचरा सुखम् ।
अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः
कामं वा स्वयम् एवाद्य तत्र मां नेतुम् अर्हसि ।
यत्रासौ पुरुषव्याघ्रस् तप्यते मे तपः सुतः
इदं हि तव विस्तीर्णं धनधान्यसमाचितम् ।
हस्त्यश्वरथसम्पूर्णं राज्यं निर्यातितं तया
एवं विलपमानां तां भरतः प्राञ्जलिस् तदा ।
कौसल्यां प्रत्युवाचेदं शोकैर् बहुभिर् आवृताम्
आर्ये कस्माद् अजानन्तं गर्हसे माम् अकिल्बिषम् ।
विपुलां च मम प्रीतिं स्थिरां जानासि राघवे
कृता शास्त्रानुगा बुद्धिर् मा भूत् तस्य कदाचन ।
सत्यसंधः सतां श्रेष्ठो यस्यार्यो ऽनुमते गतः
प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु ।
हन्तु पादेन गां सुप्तां यस्यार्यो ऽनुमते गतः
कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् ।
अधर्मो यो ऽस्य सो ऽस्यास् तु यस्यार्यो ऽनुमते गतः
परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।
ततस् तु द्रुह्यतां पापं यस्यार्यो ऽनुमते गतः
बलिषड्भागम् उद्धृत्य नृपस्यारक्षतः प्रजाः ।
अधर्मो यो ऽस्य सो ऽस्यास्तु यस्यार्यो ऽनुमते गतः
संश्रुत्य च तपस्विभ्यः सत्त्रे वै यज्ञदक्षिणाम् ।
तां विप्रलपतां पापं यस्यार्यो ऽनुमते गतः
हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले ।
मा स्म कार्षीत् सतां धर्मं यस्यार्यो ऽनुमते गतः
उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता ।
स नाशयतु दुष्टात्मा यस्यार्यो ऽनुमते गतः
पायसं कृसरं छागं वृथा सो ऽश्नातु निर्घृणः ।
गुरूंश् चाप्य् अवजानातु यस्यार्यो ऽनुमते गतः
पुत्रैर् दारैश् च भृत्यैश् च स्वगृहे परिवारितः ।
स एको मृष्टम् अश्नातु यस्यार्यो ऽनुमते गतः
राजस्त्रीबालवृद्धानां वधे यत् पापम् उच्यते ।
भृत्यत्यागे च यत् पापं तत् पापं प्रतिपद्यताम्
उभे संध्ये शयानस्य यत् पापं परिकल्प्यते ।
तच् च पापं भवेत् तस्य यस्यार्यो ऽनुमते गतः
यद् अग्निदायके पापं यत् पापं गुरुतल्पगे ।
मित्रद्रोहे च यत् पापं तत् पापं प्रतिपद्यताम्
देवतानां पित्ःणां च मातापित्रोस् तथैव च ।
मा स्म कार्षीत् स शुश्रूषां यस्यार्यो ऽनुमते गतः
सतां लोकात् सतां कीर्त्याः सज्जुष्टात् कर्मणस् तथा ।
भ्रश्यतु क्षिप्रम् अद्यैव यस्यार्यो ऽनुमते गतः
विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः ।
एवम् आश्वासयन्न् एव दुःखार्तो निपपात ह
तथा तु शपथैः कष्टैः शपमानम् अचेतनम् ।
भरतं शोकसंतप्तं कौसल्या वाक्यम् अब्रवीत्
मम दुःखम् इदं पुत्र भूयः समुपजायते ।
शपथैः शपमानो हि प्राणान् उपरुणत्सि मे
दिष्ट्या न चलितो धर्माद् आत्मा ते सहलक्ष्मणः ।
वत्स सत्यप्रतिज्ञो मे सतां लोकान् अवाप्स्यसि
एवं विलपमानस्य दुःखार्तस्य महात्मनः ।
मोहाच् च शोकसंरोधाद् बभूव लुलितं मनः
लालप्यमानस्य विचेतनस्य प्रनष्टबुद्धेः पतितस्य भूमौ ।
मुहुर् मुहुर् निःश्वसतश् च दीर्घं सा तस्य शोकेन जगाम रात्रिः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0