रामायण (दक्षिणी पाठ) · अध्याय 2.68
रामायण, अयोध्याकाण्ड, 68
तां तथा गर्हयित्वा तु मातरं भरतस् तदा ।
रोषेण महताविष्टः पुनर् एवाब्रवीद् वचः
राज्याद् भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि ।
परित्यक्ता च धर्मेण मा मृतं रुदती भव
किं नु ते ऽदूषयद् राजा रामो वा भृशधार्मिकः ।
ययोर् मृत्युर् विवासश् च त्वत्कृते तुल्यम् आगतौ
भ्रूणहत्याम् असि प्राप्ता कुलस्यास्य विनाशनात् ।
कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम्
यत् त्वया हीदृशं पापं कृतं घोरेण कर्मणा ।
सर्वलोकप्रियं हित्वा ममाप्य् आपादितं भयम्
त्वत्कृते मे पिता वृत्तो रामश् चारण्यम् आश्रितः ।
अयशो जीवलोके च त्वयाहं प्रतिपादितः
मातृरूपे ममामित्रे नृशंसे राज्यकामुके ।
न ते ऽहम् अभिभाष्यो ऽस्मि दुर्वृत्ते पतिघातिनि
कौसल्या च सुमित्रा च याश् चान्या मम मातरः ।
दुःखेन महताविष्टास् त्वां प्राप्य कुलदूषिणीम्
न त्वम् अश्वपतेः कन्या धर्मराजस्य धीमतः ।
राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः
यत् त्वया धार्मिको रामो नित्यं सत्यपरायणः ।
वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः
यत्प्रधानासि तत् पापं मयि पित्रा विनाकृते ।
भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये
कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये ।
कृत्वा कं प्राप्स्यसे त्व् अद्य लोकं निरयगामिनी
किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् ।
ज्येष्ठं पितृसमं रामं कौसल्याया आत्मसम्भवम्
अङ्गप्रत्यङ्गजः पुत्रो हृदयाच् चापि जायते ।
तस्मात् प्रियतरो मातुः प्रियत्वान् न तु बान्धवः
अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता ।
वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ
ताव् अर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले ।
रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा
अधस्ताद् व्रजतस् तस्याः सुरराज्ञो महात्मनः ।
बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः
तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर् यशस्विनीम् ।
इन्द्रः प्राञ्जलिर् उद्विग्नः सुरराजो ऽब्रवीद् वचः
भयं कच्चिन् न चास्मासु कुतश्चिद् विद्यते महत् ।
कुतोनिमित्तः शोकस् ते ब्रूहि सर्वहितैषिणि
एवम् उक्ता तु सुरभिः सुरराजेन धीमता ।
प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदा
शान्तं पापं न वः किंचित् कुतश्चिद् अमराधिप ।
अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ
एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ ।
अर्द्यमानौ बलीवर्दौ कर्षकेण सुराधिप
मम कायात् प्रसूतौ हि दुःखितौ भारपीडितौ ।
यौ दृष्ट्वा परितप्ये ऽहं नास्ति पुत्रसमः प्रियः
यस्याः पुत्रसहस्राणि सापि शोचति कामधुक् ।
किं पुनर् या विना रामं कौसल्या वर्तयिष्यति
एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता ।
तस्मात् त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे
अहं ह्य् अपचितिं भ्रातुः पितुश् च सकलाम् इमाम् ।
वर्धनं यशसश् चापि करिष्यामि न संशयः
आनाययित्वा तनयं कौसल्याया महाद्युतिम् ।
स्वयम् एव प्रवेक्ष्यामि वनं मुनिनिषेवितम्
इति नाग इवारण्ये तोमराङ्कुशचोदितः ।
पपात भुवि संक्रुद्धो निःश्वसन्न् इव पन्नगः
संरक्तनेत्रः शिथिलाम्बरस् तदा विधूतसर्वाभरणः परंतपः ।
बभूव भूमौ पतितो नृपात्मजः शचीपतेः केतुर् इवोत्सवक्षये
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0