भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.67

2.67.1

रामायण, अयोध्याकाण्ड, 67
श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ ।
भरतो दुःखसंतप्त इदं वचनम् अब्रवीत्

2.67.2

किं नु कार्यं हतस्येह मम राज्येन शोचतः ।
विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च

2.67.3

दुःखे मे दुःखम् अकरोर् व्रणे क्षारम् इवादधाः ।
राजानं प्रेतभावस्थं कृत्वा रामं च तापसम्

2.67.4

कुलस्य त्वम् अभावाय कालरात्रिर् इवागता ।
अङ्गारम् उपगूह्य स्म पिता मे नावबुद्धवान्

2.67.5

कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते ।
दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम

2.67.6

ननु त्व् आर्यो ऽपि धर्मात्मा त्वयि वृत्तिम् अनुत्तमाम् ।
वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते

2.67.7

तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी ।
त्वयि धर्मं समास्थाय भगिन्याम् इव वर्तते

2.67.8

तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम् ।
प्रस्थाप्य वनवासाय कथं पापे न शोचसि

2.67.9

अपापदर्शिनं शूरं कृतात्मानं यशस्विनम् ।
प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम्

2.67.10

लुब्धाया विदितो मन्ये न ते ऽहं राघवं प्रति ।
तथा ह्य् अनर्थो राज्यार्थं त्वया नीतो महान् अयम्

2.67.11

अहं हि पुरुषव्याघ्राव् अपश्यन् रामलक्ष्मणौ ।
केन शक्तिप्रभावेन राज्यं रक्षितुम् उत्सहे

2.67.12

तं हि नित्यं महाराजो बलवन्तं महाबलः ।
अपाश्रितो ऽभूद् धर्मात्मा मेरुर् मेरुवनं यथा

2.67.13

सो ऽहं कथम् इमं भारं महाधुर्यसमुद्यतम् ।
दम्यो धुरम् इवासाद्य सहेयं केन चौजसा

2.67.15

अथ वा मे भवेच् छक्तिर् योगैर् बुद्धिबलेन वा ।
सकामां न करिष्यामि त्वाम् अहं पुत्रगर्धिनीम् ।
निवर्तयिष्यामि वनाद् भ्रातरं स्वजनप्रियम् ॥ रम्स्_2,67.14* ॥
इत्य् एवम् उक्त्वा भरतो महात्मा प्रियेतरैर् वाक्यगणैस् तुदंस् ताम् ।
शोकातुरश् चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc