रामायण (दक्षिणी पाठ) · अध्याय 2.66
रामायण, अयोध्याकाण्ड, 66
अपश्यंस् तु ततस् तत्र पितरं पितुर् आलये ।
जगाम भरतो द्रष्टुं मातरं मातुर् आलये
अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् ।
उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसम्
स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् ।
भरतः प्रेक्ष्य जग्राह जनन्याश् चरणौ शुभौ
तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।
अङ्के भरतम् आरोप्य प्रष्टुं समुपचक्रमे
अद्य ते कतिचिद् रात्र्यश् च्युतस्यार्यकवेश्मनः ।
अपि नाध्वश्रमः शीघ्रं रथेनापततस् तव
आर्यकस् ते सुकुशली युधाजिन् मातुलस् तव ।
प्रवासाच् च सुखं पुत्र सर्वं मे वक्तुम् अर्हसि
एवं पृष्टस् तु कैकेय्या प्रियं पार्थिवनन्दनः ।
आचष्ट भरतः सर्वं मात्रे राजीवलोचनः
अद्य मे सप्तमी रात्रिश् च्युतस्यार्यकवेश्मनः ।
अम्बायाः कुशली तातो युधाजिन् मातुलश् च मे
यन् मे धनं च रत्नं च ददौ राजा परंतपः ।
परिश्रान्तं पथ्य् अभवत् ततो ऽहं पूर्वम् आगतः
राजवाक्यहरैर् दूतैस् त्वर्यमाणो ऽहम् आगतः ।
यद् अहं प्रष्टुम् इच्छामि तद् अम्बा वक्तुम् अर्हति
शून्यो ऽयं शयनीयस् ते पर्यङ्को हेमभूषितः ।
न चायम् इक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे
राजा भवति भूयिष्ठम् इहाम्बाया निवेशने ।
तम् अहं नाद्य पश्यामि द्रष्टुम् इच्छन्न् इहागतः
पितुर् ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः ।
आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने
तं प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् ।
अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता ।
या गतिः सर्वभूतानां तां गतिं ते पिता गतः ॥ रम्स्_2,66.14* ॥
तच् छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ् शुचिः ।
पपात सहसा भूमौ पितृशोकबलार्दितः
ततः शोकेन संवीतः पितुर् मरणदुःखितः ।
विललाप महातेजा भ्रान्ताकुलितचेतनः
एतत् सुरुचिरं भाति पितुर् मे शयनं पुरा ।
तद् इदं न विभात्य् अद्य विहीनं तेन धीमता
तम् आर्तं देवसंकाशं समीक्ष्य पतितं भुवि ।
उत्थापयित्वा शोकार्तं वचनं चेदम् अब्रवीत्
उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः ।
त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः
स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च ।
जननीं प्रत्युवाचेदं शोकैर् बहुभिर् आवृतः
अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति ।
इत्य् अहं कृतसंकल्पो हृष्टो यात्राम् अयासिषम्
तद् इदं ह्य् अन्यथा भूतं व्यवदीर्णं मनो मम ।
पितरं यो न पश्यामि नित्यं प्रियहिते रतम्
अम्ब केनात्यगाद् राजा व्याधिना मय्य् अनागते ।
धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम्
न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् ।
उपजिघ्रेद्धि मां मूर्ध्नि तातः संनम्य सत्वरम्
क्व स पाणिः सुखस्पर्शस् तातस्याक्लिष्टकर्मणः ।
येन मां रजसा ध्वस्तम् अभीक्ष्णं परिमार्जति
यो मे भ्राता पिता बन्धुर् यस्य दासो ऽस्मि धीमतः ।
तस्य मां शीघ्रम् आख्याहि रामस्याक्लिष्टकर्मणः
पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः ।
तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर् मम
आर्ये किम् अब्रवीद् राजा पिता मे सत्यविक्रमः ।
पश्चिमं साधुसंदेशम् इच्छामि श्रोतुम् आत्मनः
इति पृष्टा यथातत्त्वं कैकेयी वाक्यम् अब्रवीत् ।
रामेति राजा विलपन् हा सीते लक्ष्मणेति च ।
स महात्मा परं लोकं गतो गतिमतां वरः ॥ रम्स्_2,66.29* ॥
इमां तु पश्चिमां वाचं व्याजहार पिता तव ।
कालधर्मपरिक्षिप्तः पाशैर् इव महागजः
सिद्धार्थास् तु नरा रामम् आगतं सीतया सह ।
लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनर् आगतम्
तच् छ्रुत्वा विषसादैव द्वितीयाप्रियशंसनात् ।
विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम्
क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः ।
लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः
तथा पृष्टा यथातत्त्वम् आख्यातुम् उपचक्रमे ।
मातास्य युगपद् वाक्यं विप्रियं प्रियशङ्कया
स हि राजसुतः पुत्र चीरवासा महावनम् ।
दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गतः
तच् छ्रुत्वा भरतस् त्रस्तो भ्रातुश् चारित्रशङ्कया ।
स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे
कच्चिन् न ब्राह्मणधनं हृतं रामेण कस्यचित् ।
कच्चिन् नाढ्यो दरिद्रो वा तेनापापो विहिंसितः
कच्चिन् न परदारान् वा राजपुत्रो ऽभिमन्यते ।
कस्मात् स दण्डकारण्ये भ्रूणहेव विवासितः
अथास्य चपला माता तत् स्वकर्म यथातथम् ।
तेनैव स्त्रीस्वभावेन व्याहर्तुम् उपचक्रमे
न ब्राह्मणधनं किंचिद्धृतं रामेण कस्यचित् ।
कश्चिन् नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ।
न रामः परदारांश् च चक्षुर्भ्याम् अपि पश्यति ॥ रम्स्_2,66.40* ॥
मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् ।
याचितस् ते पिता राज्यं रामस्य च विवासनम्
स स्ववृत्तिं समास्थाय पिता ते तत् तथाकरोत् ।
रामश् च सहसौमित्रिः प्रेषितः सह सीतया
तम् अपश्यन् प्रियं पुत्रं महीपालो महायशाः ।
पुत्रशोकपरिद्यूनः पञ्चत्वम् उपपेदिवान्
त्वया त्व् इदानीं धर्मज्ञ राजत्वम् अवलम्ब्यताम् ।
त्वत्कृते हि मया सर्वम् इदम् एवंविधं कृतम्
तत् पुत्र शीघ्रं विधिना विधिज्ञैर् वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः ।
संकाल्य राजानम् अदीनसत्त्वम् आत्मानम् उर्व्याम् अभिषेचयस्व
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0