रामायण (दक्षिणी पाठ) · अध्याय 2.65
रामायण, अयोध्याकाण्ड, 65
स प्राङ्मुखो राजगृहाद् अभिनिर्याय वीर्यवान् ।
ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस्तरंगिणीम् ।
शतद्रूम् अतरच् छ्रीमान् नदीम् इक्ष्वाकुनन्दनः
एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् ।
शिलाम् आकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम्
सत्यसंधः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम् ।
अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति
वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् ।
यमुनां प्राप्य संतीर्णो बलम् आश्वासयत् तदा
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।
तत्र स्नात्वा च पीत्वा च प्रायाद् आदाय चोदकम्
राजपुत्रो महारण्यम् अनभीक्ष्णोपसेवितम् ।
भद्रो भद्रेण यानेन मारुतः खम् इवात्ययात्
तोरणं दक्षिणार्धेन जम्बूप्रस्थम् उपागमत् ।
वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः
तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ ।
उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः
सालांस् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।
अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ
वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम् ।
अन्या नदीश् च विविधाः पार्वतीयैस् तुरंगमैः
हस्तिपृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।
ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् ।
एकसाले स्थाणुमतीं विनते गोमतीं नदीम् ॥ रम्स्_2,65.11* ॥
कलिङ्गनगरे चापि प्राप्य सालवनं तदा ।
भरतः क्षिप्रम् आगच्छत् सुपरिश्रान्तवाहनः
वनं च समतीत्याशु शर्वर्याम् अरुणोदये ।
अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह
तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि ।
अयोध्याम् अग्रतो दृष्ट्वा रथे सारथिम् अब्रवीत्
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी ।
अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका
यज्वभिर् गुणसम्पन्नैर् ब्राह्मणैर् वेदपारगैः ।
भूयिष्ठम् ऋद्धैर् आकीर्णा राजर्षिवरपालिता
अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान् ।
समन्तान् नरनारीणां तम् अद्य न शृणोम्य् अहम्
उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर् नरैः ।
समन्ताद् विप्रधावद्भिः प्रकाशन्ते ममान्यदा
तान्य् अद्यानुरुदन्तीव परित्यक्तानि कामिभिः ।
अरण्यभूतेव पुरी सारथे प्रतिभाति मे
न ह्य् अत्र यानैर् दृश्यन्ते न गजैर् न च वाजिभिः ।
निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम्
अनिष्टानि च पापानि पश्यामि विविधानि च ।
निमित्तान्य् अमनोज्ञानि तेन सीदति मे मनः
द्वारेण वैजयन्तेन प्राविशच् छ्रान्तवाहनः ।
द्वाःस्थैर् उत्थाय विजयं पृष्टस् तैः सहितो ययौ
स त्व् अनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम् ।
सूतम् अश्वपतेः क्लान्तम् अब्रवीत् तत्र राघवः
श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने ।
आकारास् तान् अहं सर्वान् इह पश्यामि सारथे
मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् ।
सस्त्रीपुंसं च पश्यामि जनम् उत्कण्ठितं पुरे
इत्य् एवम् उक्त्वा भरतः सूतं तं दीनमानसः ।
तान्य् अनिष्टान्य् अयोध्यायां प्रेक्ष्य राजगृहं ययौ ।
तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकपाटयन्त्राम्
दृष्ट्वा पुरीम् इन्द्रपुरीप्रकाशां दुःखेन सम्पूर्णतरो बभूव ।
बहूनि पश्यन् मनसो ऽप्रियाणि यान्य् अन्यदा नास्य पुरे बभूवुः ।
अवाक्शिरा दीनमना न हृष्टः पितुर् महात्मा प्रविवेश वेश्म
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0