रामायण (दक्षिणी पाठ) · अध्याय 2.61
रामायण, अयोध्याकाण्ड, 61
व्यतीतायां तु शर्वर्याम् आदित्यस्योदये ततः ।
समेत्य राजकर्तारः सभाम् ईयुर् द्विजातयः
मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश् च काश्यपः ।
कात्यायनो गौतमश् च जाबालिश् च महायशाः
एते द्विजाः सहामात्यैः पृथग् वाचम् उदीरयन् ।
वसिष्ठम् एवाभिमुखाः श्रेष्ठं राजपुरोहितम्
अतीता शर्वरी दुःखं या नो वर्षशतोपमा ।
अस्मिन् पञ्चत्वम् आपन्ने पुत्रशोकेन पार्थिवे
स्वर्गतश् च महाराजो रामश् चारण्यम् आश्रितः ।
लक्ष्मणश् चापि तेजस्वी रामेणैव गतः सह
उभौ भरतशत्रुघ्नौ केकयेषु परंतपौ ।
पुरे राजगृहे रम्ये मातामहनिवेशने
इक्ष्वाकूणाम् इहाद्यैव कश्चिद् राजा विधीयताम् ।
अराजकं हि नो राष्ट्रं न विनाशम् अवाप्नुयात्
नाराजके जनपदे विद्युन्माली महास्वनः ।
अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा
नाराजके जनपदे बीजमुष्टिः प्रकीर्यते ।
नाराजके पितुः पुत्रो भार्या वा वर्तते वशे
अराजके धनं नास्ति नास्ति भार्याप्य् अराजके ।
इदम् अत्याहितं चान्यत् कुतः सत्यम् अराजके
नाराजके जनपदे कारयन्ति सभां नराः ।
उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च
नाराजके जनपदे यज्ञशीला द्विजातयः ।
सत्त्राण्य् अन्वासते दान्ता ब्राह्मणाः संशितव्रताः
नाराजके जनपदे प्रभूतनटनर्तकाः ।
उत्सवाश् च समाजाश् च वर्धन्ते राष्ट्रवर्धनाः
नाराजके जनपदे सिद्धार्था व्यवहारिणः ।
कथाभिर् अनुरज्यन्ते कथाशीलाः कथाप्रियैः
नाराजके जनपदे वाहनैः शीघ्रगामिभिः ।
नरा निर्यान्त्य् अरण्यानि नारीभिः सह कामिनः
नाराजके जनपदे धनवन्तः सुरक्षिताः ।
शेरते विवृतद्वाराः कृषिगोरक्षजीविनः
नाराजके जनपदे वणिजो दूरगामिनः ।
गच्छन्ति क्षेमम् अध्वानं बहुपुण्यसमाचिताः
नाराजके जनपदे चरत्य् एकचरो वशी ।
भावयन्न् आत्मनात्मानं यत्र सायंगृहो मुनिः
नाराजके जनपदे योगक्षेमं प्रवर्तते ।
न चाप्य् अराजके सेना शत्रून् विषहते युधि
यथा ह्य् अनुदका नद्यो यथा वाप्य् अतृणं वनम् ।
अगोपाला यथा गावस् तथा राष्ट्रम् अराजकम्
नाराजके जनपदे स्वकं भवति कस्यचित् ।
मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम्
ये हि संभिन्नमर्यादा नास्तिकाश् छिन्नसंशयाः ।
ते ऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः
अहो तम इवेदं स्यान् न प्रज्ञायेत किंचन ।
राजा चेन् न भवेल् लोके विभजन् साध्वसाधुनी
जीवत्य् अपि महाराजे तवैव वचनं वयम् ।
नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः
स नः समीक्ष्य द्विजवर्यवृत्तं नृपं विना राज्यम् अरण्यभूतम् ।
कुमारम् इक्ष्वाकुसुतं वदान्यं त्वम् एव राजानम् इहाभिषिञ्च
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0